SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला । कार्य सत्यपि जातु याति न बहिर्नाप्यन्यमालोकते साध्वीरप्यनुकुर्वती गुरुजनं श्वश्रू च शुश्रूषते । विस्त्रम्भं कुरुते च पत्युरधिकं प्राप्ते निशीथे पुन निद्राणे निजभर्तृबन्धुनिवहे निर्याति रन्तुं विटैः ॥ ४६ ॥ किं ब्रवीषि 'एषैव योषितां धन्या शीलं च लभते सुखम् । दिवा पतिव्रता भूत्वा नक्तं च कुलटायते ॥ ४७ ॥' इति । वयस्य, सम्यगुक्तम् । (परिक्रम्य विलोक्य च ।) वयस्य, पश्य पश्य । इयमिह अङ्गुष्ठतर्जनीभ्यामधरं धृत्वा विलोकयत्यबला । कुँचयुगमुद्धृतसिचयं पश्यति भावयति परिमृशत्यपि च ॥ ४८ ॥ सखे, इतः पश्य । एकं विश्लथकेशपाशनहने व्यापारयन्त्याः करं श्वासोत्कम्पिकुचस्थलीपरिचलच्चेलाञ्चले चापरम् । अस्याः स्त्रंसिनि लोलरत्नरशनालग्ने शनैरंशुके मन्दं मन्दमिवाविरस्ति नयनानन्दाय नाभीसरः॥ ४९ ॥ इति। (अन्यां निर्दिश्य ।) आलग्नैश्चरमाङ्गके त्रिचतुरैः शय्याप्रसनैरियं शङ्के रन्ध्रगवेषिणा निजशरैर्विद्धति पञ्चेषुणा । मीलल्लोचनशोणकोणचपलप्रस्निग्धतारं मुखं शीत्कारस्फुरिताधरं च सुतनोरस्या यदुत्ताम्यति ॥ ५० ॥ (क्षणमात्रं विचिन्त्य ।) किं ब्रवीषि-'सखे, किंचित्पृच्छामि यदि सत्यमेव १. 'अनुकुर्वते' ख-ग. २. 'निखिले जने शशिमुखी निर्याति' ख-ग. ३. 'भूयो नक्तं च कुलटा यतः' ख-ग. ४. 'कुचकलशयुगलमुद्धृतसिचया पश्यति परामृशयपि च' ख. ५. 'परिगल'. ख-ग. ६. 'संसति' ख, 'संसित' रा. ७. 'मन्ये' ख. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy