________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१ जवनिकान्तरम् कर्पूरमञ्जरी।
३३ विदूषकः-(विहस्य ।) जाणे रत्थाए लोहदि से सोहारअणं । राजा-(विहस्य ।) पिअवअस्स, कधेमि दे।
अंगं चंगं णिअगुणगणालंकिदं कामिणीणं __ पच्छाअंती उण तणुसिरिं भादि णेवच्छलच्छी । इत्थं जाणं अवअवगदा कावि सुंदरमुद्दा ।
मण्णे ताणं वलइदधणू णिच्चभिच्चो अणंगो ॥ ३३ ॥ अवि अ । एदाए तहा रमणवित्थरो जह ण ठाइ कंचीलदा
तहा अ थणतुंगिमा जह ण एइ णाहिं मुहं । तहा णअणबंहिमा जह ण किंपि कण्णुप्पलं
तहा अ मुहमुज्जलं दुससिणी जहा पुण्णिमा ॥ ३४ ॥ विदूषकःजाने रथ्यायां लुठत्यस्याः शोभारत्नम् । स्थ्यामध्यस्थितरत्नवदखिलजनरजकमित्यर्थः । राजाप्रियवयस्य, कथयामि ते।
अङ्गं चङ्गं निजगुणगणालंकृतं कामिनीनां
प्रच्छादयन्ती पुनस्तनुश्रियं भाति नेपथ्यलक्ष्मीः । इत्थं यासामवयवगता कापि सौन्दर्यमुद्रा
___ मन्ये तासां वलयितधनुनित्यभृत्योऽनङ्गः ॥ अवयवगतेति सर्वाङ्गव्यापि सौन्दर्यमुक्तम् । नित्यभृत्य इति । भृत्यो यथा भाज्ञामन्तरेणापि तदाशयमेव विज्ञाय कार्य कुरुते तथा कामिनीकटाक्षमात्रेणैव कामिनो वशी. करोति काम इत्युत्प्रेक्षयोपमा ध्वन्यते । अत्र सारः । स यथा काव्यप्रकाशे-'उत्तरोत्तरमुत्कर्षो भवेत्सारः परावधिः ।' इति । अपि च । एतस्याः तथा रमणविस्तरो यथा न तिष्ठति काञ्चीलता
तथा च स्तनतुङ्गिमा यथा नैति नाभिं मुखम् । तथा नयनबंहिमा यथा न किमपि कर्णोत्पलं
तथा च मुखमुज्ज्वलं द्विशशिनी यथा पूर्णिमा ॥
For Private and Personal Use Only