SearchBrowseAboutContactDonate
Page Preview
Page 157
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। सो अस्स कई सिरिराअसेहरो तिहुअणं पि धवलेंति । हरिणंकपालिसिद्धिए णिक्कलंका गुणा जस्स ॥ १० ॥ सूत्रधारः-ता केण समादिहा पउंजध । पारिपार्श्वक: चाउहाणकुलमौलिमालिआ राअसेहरकइंदरोहिणी। भत्तुणो किदिमवंतिसुंदरी सा पउंजइदुमेदमिच्छदि ॥ ११ ॥ किं च । चंदपालधरणीहरिणको चक्कवद्विपअलाहणिमित्तं । एत्थ सट्टअवरे रससोत्ते कुंतलाहिवसुदं परिणेदि ॥ १२ ॥ हेतुता । तदा कारणमाला स्यात्' इति । परिकरोऽप्यत्र । स यथा--'विशेषणैर्यत्साकू. तैरुक्तः परिकरस्तु सः' इति । द्वितीयपाठे आरोहणस्य चेतनधर्मस्य जयेष्वारोपणादुत्तरोत्तरप्रसारित्वलक्षणया परमकाष्ठापनत्वं व्यङ्ग्यम् । सो इति। स एतस्य कविः श्रीराजशेखरस्त्रिभुवनमपि धवलयन्ति । हरिणाङ्कप्रति(पति)सिद्ध्या निष्कलङ्का गुणा यस्य ॥ प्रतिकूलतया सिद्धिस्तत्कार्यकारित्वम् । त्रिभुवन मिति निष्कलङ्का इति च व्यतिरेकः । 'उपमानाद्यदन्यस्य व्यतिरेकः स एव सः ।' इति काव्यप्रकाशे । अन्यस्य व्यतिरेको विशेषेणातिरेक आधिक्यं व्यतिरेक इत्यर्थः । 'विस्तरादुत संक्षेपाद्विदधीत प्ररो. चनाम्' इत्युक्तत्वात् 'प्रशंसा तु द्विधा ज्ञेया चेतनाचेतनाश्रया । चेतनास्तु कथानायकविसभ्यनटाः स्मृताः ॥ अचेतनौ देशकालो कालो मधुशरन्मुखः।' इत्युक्तेश्च कविप्रशंसा कृता । नटप्रशंसा किं पुनरित्यादिना सूचिता । सूत्रधारःतत्केन समादिष्टाः प्रयुग्ध्वम् । पारिपार्श्वकः--- चाहुवानकुलमौलिमालिका राजशेखरकवीन्द्रगेहिनी । भर्तुः कृतिमवन्तिसुन्दरी सा प्रयोजयितुमेतदिच्छति ।। कवेर्भार्या प्रयोजिका। किं चेति । चण्डपालधरिणीहरिणाश्चक्रवर्तिपदलाभनिमित्तम् । अत्र साटकवरे रसस्रोतसि कुन्तलाधिपसुतां परिणयति ।। For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy