SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १ जवनिकान्तरम्] कर्पूरमञ्जरी । अवि अ। . अकलिअपरिरंभविब्भमाइँ अजणिअचुंबणडंबराइँ दूरम् । अघडिअघणताडणाइँ णिचं णमह अणंगरईणमोहणाइँ ॥ २॥ . दिवाचकाः । ते सर्वे नैव निन्द्याः स्युलिपितो गणतोऽपि च ॥? इत्यभिधानात् । 'मगणनगणदुइमित्त होइ भगणयगणहोइ भिच्च । उदासीण जत दुअगणअ अवसिहदुइ अरिणिच्च ॥' 'मित्रान्मित्रादयः स्युर्यदि धनमुदयं शून्यकं बन्धुपीडाम्' इत्यरिसंज्ञकस्य सगणस्य मित्रसंज्ञान्मगणादुत्तरपठितस्य बन्धुपीडाप्रदत्वं न मन्तव्यम् । नान्दीलक्षणे 'शब्दतो वार्थतो वापि मनाकाव्यार्थसूचनम्' इत्युक्तेस्तदप्युच्यते--सरस्वत्या: स्त्रीरत्नस्य कर्परमञ्जर्याः । 'सरस्वती स्यात्स्त्रीरत्ने नद्यां नद्यन्तरे गवि' इत्यजयः। विविधं वस्त्वभिनवमा समन्तादस्यति क्षिपति दर्शयितुमिति व्यासो भैरवानन्दः । तदीयोद्योगिनः कवयो विद्वांस: कलाकुशलाः । वरा उत्कृष्टा वाणी यस्यां सा कपरमञ्जरीसदृशी कान्ता । विदर्भमंगधपश्चालदेशीयरीतिष के सुखं यासा ता नानाविलासिन्यः काव्याभिज्ञा रसिका इति । 'हरोत्तमाङ्गस्थितवस्तवर्णनैः' इत्युक्तेज्योत्स्नापदेन शिवशिरःस्थितचन्द्रकलास्मारणम् । भद्दमिति भद्रशब्दे ‘सर्वत्र लवराम्' इति सूत्रेण रलोपे 'शेषादेशयोदित्वमनादौ' इति दस्य द्वित्वे 'अत ओ सोः' इति सोरोकारादेशे प्राप्ते 'नपुंसक सोबिन्द्रः' इत्यनुस्वारः । एवमग्रेऽपि प्राकृतप्रक्रिया ज्ञेया । क्वचिद्विशेषं वक्ष्यामः । छइलवच्छोमीशब्दौ 'दाढादयो बहुलम्' इति विदग्धवैदर्भी शब्दयोः साध । जोहामिति ज्योत्स्नाशब्दे 'अघो मनयाम्' इति नलोपे प्राप्ते 'हस्नष्टगक्ष्णश्नह्नः' इति स्नस्य हादेशेः 'उपरि लोपः' इति तलोपे 'अधामनयाम्' इति यलोपः ।। अवि एति। अपि च । अकलितपरिरम्भविभ्रमाण्यजनितचुम्बनडम्बराणि दूरम् । अगणितघनताडनानि नित्यं नमतानङ्गरत्योर्मोहनानि ।। दूरमत्यर्थे ताडनानि चन्द्रकलोद्वोधनार्थानि ‘अङ्गुष्ठे चरणे च गुल्फनिलये' इत्यादिना पञ्चसायकायुक्तानि । ताडनपदेन नखक्षतादीन्यप्युक्तानि । मोहनानि सुस्तानि । अत्र संभोगशृङ्गार उक्तः । चुम्बनताडनपदाभ्यां तज्ज्ञानं लक्ष्यते । तेषां क्रियमाणत्वादेव । परिरम्भादिभेदास्त्वनतिप्रयोजनत्वान्न लिखिताः । अनङ्गरत्योरिति काव्यलिङ्गेन नमतेति पदद्योत्यं सभ्यानामतिरसिकत्वं व्यङ्गयम् । सुरतानामतिशयितत्वं च मोहनानीति बहुवचनेनोत्तानकरणादयः सर्वे सुरतबन्धाः सूचिताः। सत्स्वपि परिरम्भादिषु तज्ज्ञानानुत्पत्तेविशेषोक्तिः । सा यथा काव्यप्रकाशे-'विशेषोक्तिरखण्डेषु कारणेषु फलावचः' इति । काव्यार्थसूचनेऽनङ्गरतिरूपयोश्चन्द्रपालकर्पूरमअर्यो यकयोर्मोहनानीति ज्ञेयम् ॥ For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy