SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४ अङ्कः] (सोत्सुक्यम् ।) www.kobatirth.org अपि च । Acharya Shri Kailassagarsuri Gyanmandir कर्णसुन्दरी । वरयुवतिरमन्दं चन्दनस्यन्दसान्द्रप्रसृतलवणिमाम्भःपङ्किलामङ्कपालीम् ॥ ८ ॥ रम्भास्तम्भमनोभिरामसहजस्पर्शा यदूरुस्फिजः संपन्नागुरुधूपवासविधयो यन्मज्जनार्द्राः कचाः । यच्चाकैतवशीतलाः कुचभुवः सा कान्तिरेणीदृशः पुष्पेषोस्तदहो निदाघसमयम्लानस्य जीवातवे ॥ ९॥ ४९ ताम्बूलद्रवमुद्रणेन विधुरच्छायो न बिम्बाधर श्रक्षुः क्षालितकज्जलं जलभरैः पुष्यत्यभिख्यां निजाम् । कोऽप्यन्यः कबरीभरस्य विगलद्विन्दोरमन्दो रसः स्नानान्ते सपदि स्मरास्त्रमनघं किं वा न वामभ्रुवम् ॥ १० ॥ तत्किमद्यापि चिरयति देवीसमाधानम् । विदूषकः - भो, मा उत्तम । देवीए एसो पडिहासो त महतो अहिणिवेसो । (क) ( प्रविश्य 1 ) चेटी - जेदु जेदु भट्टा । एदाई आहरणाई देवीए पेसिदाई विवाह - जोगाई परिहाइअ विवाहभूमी तुरिदं अलंकरीअदु । (इत्याभरणानि समर्पयति ।) (ख) राजा - एतत्त्वं गृहाणापरम् । मां समागतं देव्यै निवेदय । (इति कण्ठादवतायें मुक्तादाम समर्पयति ।) (चेटी गृहीत्वा निष्क्रान्ता |) (क) भोः, मा उत्ताम्य । देव्या एष परिहास इति महानभिनिवेश: । (ख) जयतु जयतु भर्ता । एतान्याभरणानि देव्या प्रेषितानि विवाहयोग्यानि परिधाय विवाहभूमिस्त्वरितमलंक्रियताम् । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy