________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
४ अङ्कः]
कर्णसुन्दरी।
४७
अपि च।
उन्मृष्टा शयनेषु चित्रसुरतक्रीडाविधेः साक्षिणी
लाक्षारागमयी लिपिः श्रमवशाः पारावताः शेरते । सर्व साधकमत्र तु प्रतिविधिं कुर्युः कुरङ्गीशस्तादृश्यः प्रसरन्ति यद्गुरुजनस्याग्रे शुकानां गिरः ॥ ३ ॥
(ततः प्रविशति विदूषकः ।) विदूषकः-(सपरितोषम् ।) साहु अमच्च, साहु । देवीए भाइणेयं कुमारं कण्णसुन्दरीए समाणवअस्सं अप्पणो सआसे से वेसधारिणं आणअन्तेण तस्स व्व णिवासे कण्णसुन्दरी मुअन्तेण सव्वं साहिदम् । ता पिअवअस्सस्स चक्कटिभावः सव्वधा अहिमुहो संवुत्तो । अवरं देवीए परिहासादो रक्खिदो अज्ज खु महाभावो अ । मए मन्दभाअधेआए वामत्तणेण अजउत्तो किलिम्मिदोत्ति कण्णसुन्दरीपदिकिदिगब्भरू अं भाइणेअं परिणाइउं पिअवअस्सो पउत्तो । संपदं देवी एव्व विलक्खा हुविस्सदि । ता दुस्सअसंगदनिवाहस्स तस्स परिवासवट्टी होमि । (इति निष्क्रान्तः ।) (क)
(ततः प्रविशति राजा विदूषकश्च ।) राजानिद्रां लम्भयता चिरं भगवता भालस्थलीलोचन
ज्वालापल्लवसंस्तरे पुरजिता पुष्पायुधं मन्मथम् ।
(क) साधु अमात्य, साधु । देव्या भागिनेयं कुमारं कर्णसुन्दर्याः समानवयस्कमात्मनः सकाशे तस्या वेषधारिणमानयता तस्यैव निवासे कर्णसुन्दरी मुञ्चता सर्व साधितम् । तत्प्रियवयस्यस्य चक्रवर्तिभावः सर्वथाभिमुखः संवृत्तः । अपरं देव्याः परिहासाद्रक्षितोऽद्य खलु महाभावश्च । मया मन्दभागधेयया वामत्वेनार्यपुत्रः क्लामित इति कर्णसुन्दरीप्रतिकृतिगर्भरूपं भागिनेयं परिणाययितुं प्रियवयस्यः प्रवृत्तः। सांप्रतं देव्येव विलक्षा भविष्यति । तदुःसहसंगतनिवासस्य(?) तस्य परिपार्श्ववर्ती भवामि ।
For Private and Personal Use Only