SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir . काव्यमाला । (सगद्गदम् ।) हा हन्त किंतु मदनो मम तावदेव ___ मर्माणि कृन्तति कृतान्त इवाततायी ॥ २४ ॥ (किंचिद्वैर्यमवलम्ब्य ।) पञ्चापि युगपदेवायं मयि अशोकपद्मोत्पलचूतमल्लिकाशराननङ्गो यदि संदधाति सः । तथाविधानेतत्समसंख्याकान् करास्यनेत्राधरहासमार्गणांस्तैदा प्रियाया अनुसंदधाम्यहम् ॥२५॥ इति तामेव तामरसलोचनां मनसा गोचरयन्कि करोमि प्रियामेर्वं चिन्तयन्नपि न पारयामि विरहपारावारम् । यतः, मम सा प्रियतमापि मन्दस्मितेन मधुराधरपल्लवेन कुम्भोन्नमत्कुचभरेण कृशोदरेण । विद्युन्निभाङ्गलतया च विचिन्त्यमाना चेतो धुनोति च धिनोति च चञ्चलाक्षी ॥ २६ ॥ (किंचिदिव स्मित्वा ।) अहो दुःशीलता मदीयहृदयस्य यदिदं तथापि तत्पादाम्बुरुहं तदूरुयुगलं तादृङ्कितम्बस्थलं तन्मध्यं स गभीरनाभिवलयस्तावानुरोजक्रमः । तहकं तदपाङ्गमुग्धवलनं ते नीलनीलालकाः सा तन्वीति तदङ्गकेषु हृदयं धावन्न विश्राम्यति ॥ २७ ॥ (स्पर्शमभिनीय ।) कथमियं प्रभातप्राया रजनी संवृत्ता । पुरातनपरीमलप्रकरमेदुरा मारुता न वान्ति मुकुलीभवत्कुमुदगर्भलीना इव । चरन्ति नवसौरभाः पुनरमी समीराङ्कुराः सजृम्भणसरोजिनीसरसिजास्यमुक्ता इव ॥ २८ ॥ १. 'संदधानः' ख-ग. २. 'तथाविधान्-' इत्यादि ख-ग-पुस्तकयो स्ति. ३. 'तथा' ख-ग. ४. 'एवं' क. ५. 'मम प्रिया दूती' ख, 'मामतिप्रियायुवतिः' ग. ६. 'चपला मम चञ्चलाक्षि' ख-ग. ७. 'स्थित्वा' ख-ग. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy