SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४२ काव्यमाला। राजा-(लेखं बहुलं प्रसार्य ।) कथमत्राप्यक्षराणि । (वाचयति ।) पश्यागच्छ कुतूहलादपि गृहानस्माकमाकर्णय ___ त्वं देवि च्छलिता न केनचिदिति प्रोक्तं शुकानामपि । सा नः कापि सखीषु नास्ति सुभग प्राप्तस्तदीयाङ्गकस्पीष्मग्लपितो न कामपि रुजं यस्याः किणाङ्कः करः॥१७॥ कथमपि हृदि कृत्वा त्वद्वियोगातिभारं सुभग निबिडलजामजदारम्भमास्ते । पिशुनयति कशाङ्गयाः केवलं मन्मथाग्निं श्वसितपवनधूमश्यामला चित्रशाला ॥ १८ ॥ विदूषकः-(पुरतोऽवलोक्य ) भो, तुह्माणं दुहुँ पि तारिसो सिणेहो जारिसो इमस्स चक्कवाअजुअलस्स । (क) राजा-( सस्पृहमैवलोकयन् ।) रक्ताम्भोरुहचारुचञ्चपुटकेनोद्धर्तुमिच्छन्निव । भ्रश्यत्पश्यति बिम्बमम्बरमणेश्चक्राह्वयो विह्वलः । साश्रुर्मुञ्चति चक्षुषी प्रतिदिशं कान्तास्य दीनानना __मा भैषीस्त्वमिति स्वकालविरहत्राणार्थिनीवानिशम् ॥ १९ ॥ विदूषकः-भो, निरन्तरगोधनसहस्ससमुहूतधूलीसमुच्छाहिदतरुणतरतिमिररिञ्छोलीलञ्छणे समए अणुसरीअदु संकेदट्ठाणम् । (ख) राजा—(अर्ध्वमवलोक्य ।) संधत्ते धूपधूमच्छविमबहु तमः प्राप्यते तारकाभिः पुष्पस्त्रग्दामशोभा नभसि नवनिशाकामिनीतल्पकल्पे । (क) भोः, युवयोर्द्वयोरपि तादृशः स्नेहो यादृशोऽस्य चक्रवाकयुगलस्य । (ख) भोः, निरन्तरगोधनसहस्रसमुद्भूतधूलीसमुत्साहिततरुणतरतिमिरपतिलाञ्छने समयेऽनुत्रियतां संकेतस्थानम् । १. 'लेखनं' इत्यादर्शपाठः. २. 'श्वसिति' इत्यादर्शपाठः. ३. 'अवलोकयति' इत्यादर्शपाठः. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy