________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
काव्यमाला ।
राजा--(सानन्दमात्मगतम् ।)
मग्नं मृगासरसीव सुधानिधाने ___ गर्भ निषण्णमिव पङ्कजकैरवाणाम् । अप्यत्र यन्त्रविनिपीडितपारिजात
निःस्यन्दधौतमिव निईतिमेति चेतः ॥ ३८ ॥ सखी-सहि, एदेण हत्थफंसेण ण उच्छससि त्ति अहो दे कठिणत्तणम् । (क)
नायिका-किंचित्समाश्वस्य ।) अम्मो, किंत्ति रसाअणसित्तेव्व णिव्वुदिं उठवहामि । एसो जिआअणो कङ्खिदो जणो । (इति किंचिदृष्ट्वा सलजमास्ते ।) (ख) राजावद सुवदने किं व्यामोहः समाश्वसिहि द्रुतं
प्रणयिनि जने किं प्रत्याशाविरोधि विचेष्टितम् । नय नयनयोरातिथ्यं मां मनोभववागुरा
__ परिचरतु मां नीलाम्भोजस्रजः कलयान्विता ॥ ३९ ॥ विदूषकः- भोदि, किं ण अलिअणिद्दा विद्दावीअदि । पिअवअस्सो एव्वं दीणत्तणं दंसेदि । (ग)
सखी- (सहासम् ।) किंत्ति पडिपत्तिमूढदा अङ्गीकदेत्ति । (एनां बलादा. नीय राजान्तिकमुपवेशयति ।) (घ)
(क) सखि, एतेन हस्तस्पर्शेन नोच्छसिसीयहो ते कठिनत्वम् ।
(ख) अहो, किमिति रसायनसिक्तेव निवृतिमुद्हामि । एप जीवनः काङ्कितो जनः ।
(ग) भवति, किं नालीकनिद्रा विद्राव्यते । प्रियवयस्य एवं दीनत्वं दर्शयति । (घ) किमिति प्रलिपत्तिमूढता अङ्गीकृतेति ।
For Private and Personal Use Only