SearchBrowseAboutContactDonate
Page Preview
Page 11
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir काव्यमाला। (पुनर्विमृश्य ।) कथमेतावतोऽपि तत्कालेऽवकाशः । यतः । कुले कोमलशाहले पदमिह द्रागर्पितं वा न वा किंचिच्चाटु चमत्कृतं च वचनं किं व्याहृतं वा न वा । साकृतप्रणयं च सामि नयनं व्यापारितं वा न वा तन्व्या हन्त तदन्तरे विधिवशात्तस्याः प्रबुद्धः पतिः ॥ १६ ॥ इयं च पुनरभागधेयेन मया उत्सङ्गे विनिवेशयामि पुलकिन्याघ्राय वक्त्राम्बुजं ___ वक्षोजौ परिरभ्य वारिजदृशश्शुम्बामि बिम्बाधरम् । जल्पन्त्याः श्रवणे रहः किमपि मे विश्लेषयामि च्छला न्नीवामित्यफलैमनोरथशतैर्नीता निशा केवलम् ॥ १७ ॥ अथवा तमनया व्यतीतचिन्तया। (निःश्वस्य ।) अत्रैवोद्याने पनरप्येषा आरुह्योरुयुगं प्रसह्य रभसादुन्नीय नीवी प्रिया काञ्चीकिङ्किणिकानिनादचकिता मन्दोच्चलन्मध्यमा । किंचित्कूजितकंधरा रतिपरिश्रान्ता च दष्टाधरा कामं मे परिपूरयिष्यति न किं श्वो वा परश्वोऽपि वा ॥ १८ ॥ (क्षणमात्र विचिन्त्य ।) अलमनयाप्यनागतावगाहिन्या वाञ्छावाहिन्या । किंत्वेतावदाशासनीयम् । आनीलकुन्तलपरिष्कृतमायताक्ष मापाटलाधरदलाञ्चितमन्दहासम् । आपीनतुङ्गकुचमप्रतिमावलग्न मङ्गं पुरः स्फुरतु मे पुनरङ्गनायाः ॥ १९ ॥ (स्मृतिमभिनीय ।) इदमपि मे दुर्लभं मन्दभाग्यस्य । यतः (आकाशे ।) या पत्युः प्रयासि सदनं मृत्योरिव सपदि भीषणं वदनम् । सा त्वं प्रिये कथं मे यास्यसि भूयोऽपि नयनयोरयनम् ॥ २० ॥ १ एतावता' ख. २. 'यतः' ख-ग-पुस्तकयो स्ति. ३. 'च' ख-ग-पुस्तकयोनास्ति. ४. 'कृतं कृतमनया क. ५. 'व्यतीतगोचरया' ख-ग. For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy