SearchBrowseAboutContactDonate
Page Preview
Page 104
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ १ अङ्कः] कर्णसुन्दरी । देवी–कि पि सुणन्तीओ उपसप्पम । (क) राजा-(बद्धाञ्जलिः ।) आयासः किमयं तथैव धनुषो देव स्मर स्वीकृत___ स्त्वत्पत्रिव्ययपात्रमत्र कतमः कात्यायनीकामुकः । एतां लोकविलक्षणेन विधिना केनापि येनासिषी(?) यायां ?) चित्रगतामपि प्रियतमां संजीव्य संप्रापय ॥ ५४॥ देवी-कस्स कदे अजउत्तो एवं मन्तेदि। (ख) हारलता-कस्स अण्णस्स । भोदि जेव्व कुविदं जाणिअ चित्तपडिबिम्बेण अप्पाणं विणोदेदि भट्टा । ता उपसप्पीअदु । (ग) (तथा विधत्तः ।) देवी-जेदु अजउत्तो । (घ) हारलता-जेदुः जेदु भट्टा । (ङ) देवी-(सविनयम् ।) मए एव्व तदा किं पि खलिदं ति अज्जउत्तेण ण अण्णधा भणिदव्वम् । (च) राजात्रिजगति भवती परं ममैका दिशति मुदं कुमुदस्य कौमुदीव । प्रभुरसि कुरुषे रुषं कदाचिद्गजसि कदापि यथारुचि प्रसादम् ॥१५॥ विदूषकः-महाणुभावा देवी जा एव्वं पतिच्छत्तणं धारेदि । (छ) (क) किमपि शृण्वय उपसावः । (ख) कस्य कृते आर्यपुत्र एवं मन्त्रयते । (ग) कस्यान्यस्य । भवतीमेव कुपितां ज्ञात्वा चित्रप्रतिबिम्बेनात्मानं विनोदयति भर्ता । तदुपसर्प्यताम् । (घ) जयतु आर्यपुत्रः । (ङ) जयतु जयतु भर्ता । (च) मयैव तदा किमपि स्खलितमित्यार्यपुत्रेण नान्यथा भणितव्यम् । (छ) महानुभावा देवी यैवं पत्यनुकूलत्वं धारयति । For Private and Personal Use Only
SR No.020485
Book TitleMukundanandbhan
Original Sutra AuthorN/A
AuthorKashipati, Durgaprasad Pandit, Kashinath Pandurang Parab
PublisherNirnaysagar Press
Publication Year1889
Total Pages368
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy