SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत-उत्तरमेघः । (सञ्जी० ) सेति ॥ अबला दुर्बला संन्यस्ताभरणं कृशत्वात्परित्यक्ताभरणमसकृदनेकशो दुःखदुःखेन दुःखप्रकारेण ॥ "प्रकारे गुणवचनस्य' इति द्विर्भावः ॥ शय्योत्सङ्गे निहितं पेशल मृदुलं गात्रं शरीरं धारयन्ती वहन्ती ॥ अनेनात्यन्ताशक्त्या मूर्छावस्था सूच्यते ॥ सा त्वत्सखी त्वामपि नवजलमयं नवाम्बुरूपमखं बाष्पमवश्यं सर्वथा मोचयिष्यति ॥ "द्विकर्मसु एचादीनामुपसंख्यानम्" इति मुचेः पचादित्वाद्विकर्मकत्वम् ॥ तथा हि। प्रायः प्रायेणान्तरात्मा मृदुहृदयः । मेघस्तु द्रवान्तःशरीरः। सर्वः करुणा करुणामयी वृत्तिरन्तः करणवृत्तिर्यस्य स करुणावृत्तिर्भवति । हि यस्मात् । अस्मिन्नवसरे सर्वथा त्वया शी गन्तव्यमनन्तरदशापरिहार्यति संदर्भाभिप्रायः ॥ ननु किमिदमादिमां चक्षुःप्रीतिमुपेक्ष्यावस्थान्तराण्येव तत्रभवान्कविरादृतवान् ! उच्यते-"संभोगो विप्रलम्भश्च द्विधा शृङ्गार उच्यते । संयुक्तयोस्तु संभोगो विप्रलम्भो वियुक्तयोः ॥ पूर्वानुरागमानाख्यप्रवासकरुणात्मना। विप्रलम्भश्चतुर्धात्र प्रवासस्तत्र च विधा । कार्यतः संभ्रमाच्छापादस्मिन्काव्ये तु शापजः । प्रागसंतयोयूँनोः सति पूर्वानुरअने ॥ चक्षुःप्रीत्यादयोऽवस्था दश स्युस्तत्क्रमो यथा । दृङ्मनःसङ्गसंकल्पा जागरः कृशता रतिः॥ ह्रीत्या गोन्मादमन्तिा इत्यनङ्गदशा दश । पूर्वसंगतयोरेव प्रवास इति कारणात् ॥ न तत्रापूर्ववच्चक्षुःप्रीतिस्त्पत्तुमर्हति । सत्सङ्गस्त तु सिद्धस्थाप्यविच्छेदोऽत्र वर्ण्यते ॥ अन्यथा पूर्ववद्वाच्या इति तावव्यवस्थितेः। वैयर्थ्यादादिमां हित्वा वैरस्यादन्तिमां तथा ॥ हृत्सङ्गादिरिहाचष्ट कविरष्टाविति स्थितिः॥ मत्सादृश्यं लिखन्तीति पद्येऽस्मिन्प्रतिपादिता । चक्षुःप्रीतिरिति प्रोक्तं निरुत्तरकृताननम् । चक्षुःप्रीतिर्भवेचित्रेष्वदृष्टचरदर्शनात । यथा मालविकारूपमग्निमित्रस्य पश्यतः । प्रोषितानां च भर्तृणां च दृष्टादृष्टपूर्वता ॥ अथ तत्रापि संदेहे स्वकलत्राणि पृच्छतु । किं भर्तृप्रत्यभिज्ञा स्यात्कि वैदेशिकभावना ॥ प्रवासादागते स्वस्मिनित्यलं कलहैर्वृथा ॥” इति ॥ ३० ॥ (चारिक) तस्या दैन्यं निरूपयति । सेति--सा अबला स्त्री एतादृशं गात्रं धारयन्ती सती त्वामपि नवजलमयं अस्त्रं बापं मोचयिष्यति । तथा दुःखितां तां विलोक्य त्वमपि रोदिष्यसीत्यर्थः । न केवलं मामपि त्वामपीत्यपेरर्थः । तस्या दुःखे तव रोदनं किं कारणमित्याह । आन्तिरात्मा सरसमनोवृत्तिः । सर्वः प्रायो बाहुल्येनावश्यं करुणमयी वृत्तिर्यस्य स तादृशो भवति । कीदृशं वपुः । विरहात्सन्यस्तानि त्यक्तान्याभरणानि यस्यतत् । तथा पेलवं मृदु । अत एव शय्याया उत्सङ्ग पृष्टे दुःखेनातिक्लेशेन असकृद्वारं वारं निहितं दुःखदुःखेनेति । अतिशये द्विवचनम् । गात्रं वपुः संहननमित्यमरः ॥३०॥ (भाव०)हे मेघ ! अनलार शोककृशम कथंचित् धारयन्ती सा मे प्रिया निजदुरवस्थादर्शनात् त्वामपि नवजलमयमच मोचयिष्यति, यत आन्तिरः सर्वोऽपि सकरुणो भवति ॥३०॥ नन्वीदृशी दशामापन्नेति कथं त्वया निश्चितमत आहजाने सख्यास्तव मयि मनः संभृतस्नेहमस्मा. दित्थंभूतां प्रथमविरहे तामहं तर्कयामि । वाचालं मां न खलु सुभगंमन्यभावः करोति प्रत्यक्षं ते निखिलमचिराातरुक्तं मया यत् ॥३१॥ ( सञ्जी० ) जान इति ॥ हे मेघ, तब सख्या मनोमयि संभृतस्नेहं संचितानुरागं जाने । अस्मात्स्नेह जानकारणात्प्रथमविरहे। प्रथमग्रहणं दुःखातिशयद्योतनार्थम् । तां त्वत्सखीमित्थंभूतां पूर्वोक्तावस्थामापन्नां तर्कयामि ॥ ननु सुभगमानिनामेष स्वभावो यदात्मनि स्त्रीणामनुरागप्रकटनं तत्राह-वाचालमिति। सुभगमात्मानं मन्यत इति सुभगमन्यः ॥ "आत्ममाने खश्व" इति खाप्रत्ययः । "अरुषि-" इत्यादिना मुमागमः ॥ तस्य भावः सुभगंम For Private And Personal Use Only
SR No.020477
Book TitleMeghdutam
Original Sutra AuthorN/A
AuthorKalidas, Narayan Shastri Riste
PublisherJai Krishnadas Haridas Gupta
Publication Year1931
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy