SearchBrowseAboutContactDonate
Page Preview
Page 70
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मेघदूत-उत्तरमेघः । विद्युत्त्वाकृष्टमेघसदृशः ॥ १४ ॥ (भाव० )हे मेघ ! तख्या वाप्यास्तीरे सुन्दरः कनककदलीयेष्टितः क्रीडाशैलोऽस्ति, विद्युद्विलासमहितं त्वां तमेव शैलमह मन्ये ॥ १४ ॥ रक्ताशोकश्चलकिसलयः केसरश्चात्र कान्तः प्रत्यासन्नौ कुरबकवृतेमाधवीमण्डपस्य । एकः सख्यास्तव सह मया वामपादाभिलाषी __काङ्गत्यन्यो वदनमदिरां दोहदच्छद्मनास्याः ॥ १५ ॥ ( सञ्जी० ) रक्तति ॥ अन्त्र क्रीडाशैले।कुरबका एव वृतिरावरणं यस्य तस्य । मधौ वसन्ते भवा माधव्यस्तासां मण्डपस्तस्यातिमुक्तलतागृहस्य । “ अतिमुक्तः पुण्ड्रकः स्याद्वासन्ती माधवी लता" इत्यमरः । प्रत्यासन्नौ संनिकृष्टौ चलकिसलयश्चञ्चलपल्लवः । अनेन वृक्षस्य पादताडनेषु प्राञ्जलित्वं व्यज्यते । रक्ताशोकः । रक्तविशेषणं तस्य स्मरोद्दीपकत्वादक्तम् । "प्रसूनकैरशोकस्तु श्वेतो रक्त इति द्विधा । बहुसिद्धिकरः श्वेतो रक्तोऽत्र स्मरवधनः ।" इत्यशोककल्पे दर्शनात् । कान्तः कमनीयःकेसरो बकुलश्च । “अथ केसरे । बकुलो वजुलः' इत्यमरः । स्त इति शेषः । एकस्तयोरन्यतरः । प्राथमिकत्वादशोक इत्यर्थः । मया सह तब सख्याः । स्वप्रियाया इत्यर्थः । वामपादाभिलाषी । दोहदच्छमनेत्यत्रापि संबन्धनोयम् । स चाहं च । अभिलाषिणावित्यर्थः । अन्यः केसरः । दोहदं वृक्षादीनां प्रसवकारणं संस्कारद्रव्यम् । “तरुाल्मलतादीनामकाले कुशलैः कृतम् । पुष्पायुत्पादक द्रव्यं दोहदं स्यात्त तक्रिया ॥” इति शब्दार्णवे । तस्य छद्मना व्याजेन । "कपटोऽस्त्री व्याजदम्भोपधयश्छदम कैतवे” इत्यमरः । अस्यास्तव सख्या वदनमदिरां गण्डूषमा काङ्क्षति । मया सहेत्यत्रापि संबन्धनीयम् । अशोकाकुलयाः स्वीपादताडनगण्डूपमदिरे दोहदमिति प्रसिद्धिः॥ "स्त्रीणां स्पर्शात्प्रियङ्गुर्विकसति बकुलः सीधुगण्डूपसेकात्पादाघातादशोकस्तिलककुरबको वीक्षणालिङ्गानाभ्याम् । मन्दारो नर्मवाक्यात्पटुमृदुवसनाच्चम्पको वक्त्रवाताच्चूतो गीतान्नमेरुविकसति च पुरो नर्तनात्कर्णिकारः" ॥१५॥ (चारि०) रक्तेति । तत्र गृहे चलानि किसलयानि पल्लवा यस्य स तथा। रक्तश्वासावशोकश्च कान्तः केसरो बकुलश्च कुरबका वृक्षविशेषाश्चावृतिरावरणं यस्य माधव्या वासन्त्या मण्डपस्य प्रत्यासन्नौ समीपत्तिनी तिष्ठतः । तयोर्मध्ये एकोऽशोको दोहदमेव छम व्याजस्तेन मया सह तव सख्या वल्लभाया वामपादाभिलाषी वामचरणाभिलाषुकः । यथाऽहं सापराधः पादप्रसादं वान्छामि । तद्वदित्यर्थः । अन्यः केसरो दोहदछमना मत्प्रियाया मया सह वदनमदिरां मुखमद्यमाकाङ्क्षति । यथाहं स्नेहेनाननासवमाकाङ्क्षामि तथायमपीत्यर्थः । स्त्रीचरणप्रहारेणाशोकस्य योषामुखसीधुवितरणेन केसरस्य वहलकुसुमाद्युत्पत्तिः ॥ १६ ॥ (भाव० )हे मेव ! तत्र क्रीडाशैले रक्ताशोको बकुलश्चाऽस्ति । तत्रैकः तव सख्या वामपादाघातं, अन्यो मुखमदिरागण्डूषं चापेक्षते ॥ १५ ॥ तन्मध्ये च स्फटिकफलका काश्चनी वासयष्टि मूले बद्धा मणिभिरनतिप्रौढवंशप्रकाशैः । तालैः शिञ्जावलयसुभगैर्नर्तितः कान्तया मे यामध्यास्ते दिवसविगमे नीलकण्ठः सुहृदः ॥ १६ ॥ For Private And Personal Use Only
SR No.020477
Book TitleMeghdutam
Original Sutra AuthorN/A
AuthorKalidas, Narayan Shastri Riste
PublisherJai Krishnadas Haridas Gupta
Publication Year1931
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy