SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ सञ्जीवनीचारित्रवर्द्धनी भाव प्रबोधिनी सहिते arat चर्मण्वतीनदीप्रवाहरूपेण भुवि परिणतां रन्तिदेवस्य रन्तिदेवनास्त्रो नृपतेः कीर्ति यशः मानयिष्यन् पूजयिष्यन् । पुनः कीदृशीं सुरभितनयालम्भजां सुरभितनयानां कामधेनू - त्पन्नगवां आलम्भो मारणं ततो जाता । महाभारते किलैवं श्रूयते दशपुराभिधानस्य देशस्य रन्तिदेवाख्यो भूपतिरभूत् । तस्य गावो देवगवीनां सौन्दर्यादिकमवलोक्य तच्च यज्ञेषु विशेसनादिति ताभ्य एवं निशम्य रन्तिदेवमेत्य विज्ञप्तिं चक्रुः स्वामिन् यागेषु त्वमस्मानालम्भेथा येन दिव्यरूपाभवाम इति । सोऽपि यागेषु ता मारयित्वा तासां चर्माणि पर्वतवत् राशीचक्रे ततो रक्तनिःस्यन्दात्काचिन्नदी समुत्पेदे तासां चर्मप्रभवत्वाच्चर्मण्वतीमाहुवृद्धाः ॥ ४५ ॥ (भाव० ) है मेघ; इत्थं भगवन्तं स्कन्द्र संसेव्य तत्र स्कन्दसेवासमागतैवीणोपजीविभिः सिद्धजातिविशेष मिथुनै जेल सम्बन्धाद्वीणा निक्कशनोपरोधभीतै मुक्तमार्गः सन् कंचिदध्वानमतिक्रम्य रन्तिदेवतासंख्यगोमेघसम्बन्धि गोचर्मनिष्यन्दपरिणतां चर्मण्वतीं नाम नदीमुपगच्छ ॥ ४५ ॥ त्वय्यादातुं जलमवनते शार्ङ्गिणो वर्णचौरे तस्याः सिन्धोः पृथुमपि तनुं दूरभावात्यवाहम् | मेक्षिष्यन्ते गगनगतयो नूनमावर्ज्य दृष्टी रेकं मुक्तागुणमिव भुवः स्थूलमध्येन्द्रनलिम् ॥ ४६ ॥ ( सञ्जी० ) त्वयीति ॥ शार्ङ्गिणः कृष्णस्य वर्णस्य कान्तेश्वरे । तत्तुल्यवर्ण इत्यर्थः । त्वयि जलमादातुमवनते सति पृथुमपि दूरत्वात्तनुं सूक्ष्मतया प्रतीयमानं तस्याः सिन्धोश्वर्मण्वत्याख्यायाः प्रवाहम् । गगने गतिर्येषां ते गगनगतयः खेचराः सिद्धगन्धर्वादयः ॥ अयमपि बहुव्रीहिः पूर्वजन्माद्युत्तरपदेषु द्रष्टव्यः ॥ नूनं सत्यं दृष्टीरावर्ण्य नियम्यैकमेकयष्टिकं स्थूलो महान्मध्यो मध्यमणीभूत इन्द्रनीलो यस्य तं भुवो भूभुक्तागुणं मुक्ताहारमिव प्रेक्षिष्यन्ते ॥ अत्र अत्यन्तनीलमेघसङ्गतस्य प्रवाहस्य भूकण्ठमुक्तागुणत्वेनोत्प्रेक्षणादुत्प्रेक्षैवेयमितीवशब्देन व्यज्यते । निरुक्तकारस्तु " तत्र तत्रोपमा यत्र इवशब्दस्य दर्शनम्” इतीवशब्ददर्शनानाप्युपमैवेति बनाम ॥ ४६ ॥ ( चारि०) त्वयीति - भो क्षेत्र गगने व्योम्नि गतियेषां ते सिद्धा दूरं यथा स्यात्तथा दृष्टीर्नयनान्यावर्ज्य नमयित्वा तस्याः सिन्धोश्चर्मण्वत्याः प्रवाहं त्वयि जलं समादातुं स्वीकर्तुमवनते लम्बमाने सति भुवः स्थूलो मध्ये इन्द्रनीलमणिर्यस्य तमेकं मुक्तागुणं मौक्तिकस्रजमिव प्रेक्षिष्यन्ते विलेोकयिष्यन्ति कीट प्रवाहम् । पृथु स्थूलमपि दूरभावात्तनुं कृशं कीदृशे शाङ्गिण विष्णोर्वचौरे | दीप्तिभुषि नीलकान्तावित्यर्थः ॥ ४६ ॥ ( भाव० ) हे मेव ! तत्र कृष्णकान्तौ त्वयि जलपानायाऽवतीर्णे सति गगनचारिणो महान्तमपि दूरतया सूक्ष्म मित्र लक्ष्यमाणं नदीप्रवाहं त्वत्सम्बन्धेन इन्द्रनीलमणिमध्याङ्कितं मौहार मित्र कुतुकं ह्रदयन्ति ॥ ४६ ॥ तामुत्तीर्य व्रज परिचित भ्रूलताविभ्रमाणां पक्ष्मोत्क्षेपादुपरिविलसत्कृष्णशारमभाणाम् । कुन्दक्षेपानुगमधुकर श्रीमुषामात्मविम्बं पात्रीकुर्वन्दशपुरवधूनेत्र कौतूहलानाम् ॥ ४७ ॥ ( सञ्जी०) तामिति ॥ तां चर्मण्वतीमुत्तीर्य भ्रुवो लता इव भ्रूलताः ॥ उपमितसमासः ॥ For Private And Personal Use Only
SR No.020477
Book TitleMeghdutam
Original Sutra AuthorN/A
AuthorKalidas, Narayan Shastri Riste
PublisherJai Krishnadas Haridas Gupta
Publication Year1931
Total Pages96
LanguageSanskrit
ClassificationBook_Devnagari
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy