SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( ३२) इतो यदा चलिष्यामि तदा मे प्राणसंशयः ॥ १३३ ॥ कस्य दुष्कर्मणः पाकात्कस्य वाथ विधेर्वलात् । सुहृदालोकसौख्यस्य दूरेऽस्मि धृतदुर्दशम् ॥ १३४ ॥ तद्गत्वा तातपादेभ्यः सुहृदे च सुजन्मने । निवेदयत निर्हेतुमीदृशी मम दुर्दशाम् ॥ १३५ ॥ इत्युक्ता वयमेतेन विधिना विह्वलाशयाः । सान्त्वनस्तर्जनैश्चापि शतधा बोधयाम तम् ॥ १३६ ॥ तत्सर्वमभवत्तस्मिन् भस्मन्येव परं हुतम् । कृताहारश्च तत्रासीत्फलाद्यैः प्रार्थितश्विरम् ॥ १३७ ॥ ततस्त्रिदिवसादू तं दृष्ट्वा तादृशस्थितिम् । संस्थाप्य तस्य रक्षायै तत्सैन्यं वयमागताः ॥ १३८ ।। इत्याकर्ण्य सुहृदवृत्तमसंभाव्यं कथास्वपि । विभुर्वभूव प्रथमं पात्रं प्रेमशोकयोः ॥ १३९ ॥ सुहृदः शोकजनकमपि वृतान्तमद्भुतम् । मेने कादम्बरीमाप्तिकारणं पुनरात्मनः ॥ १४० ॥ ततो निवृत्य स ययौ शुकनासस्य मन्दिरम् । समाश्वासयता राज्ञा पल्या चापि परिष्कृतम् ॥१४॥ हा वत्स ! हन्त ! केयमकालेन वनवासिता । पितरौ तौ परित्यज्य किं तपोभिः कृतैः फलम् ? ॥१४२।। इत्याक्रन्दितमाकर्ण्य तन्मातुः शोकविह्वलः । ददर्श सचिवं तत्र वर्तमानं महीभुजा ॥ १४३ ॥ ततस्तं प्रणतं दृष्ट्वा तनूज धरणीपतिः । जातमन्युर्जगादैवं शोकावेगसमाकुलः ॥ १४४ ॥ वत्स ! बालो वनं प्राप्तो वैशम्पायन एष यत् । तवैव दोषस्तत्मन्ये कथ्यतां तत्र कारणम् ॥ १४५ ॥ इति तां वाचमाक्षिप्य शुकनासस्तमब्रवीत् । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy