________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
( २१ ) तद्गत्वा संविदो बालां विनिवर्तयितास्म्यहम् ॥ ११६ ॥ किमप्यन्यन्महाभाग ! क्रियतां भवतापि च । यदि ते मयि वात्सल्यं इत:कार्यक्षतिर्न चेत् ॥ ११७ ॥ दृष्ट्वा कादम्बरीं त्वं च दृष्टिसाफल्यमाप्नुहि । किञ्चित्त्वदर्शनात्सा च कृतार्थयतु लोचने ॥ ११८॥ सा कान्तिशीलसौजन्यसौन्द्रर्यप्रमुखैः गुणैः । भवादृशां भवत्येव प्रेक्षणीयेषु वस्तुषु ॥ ११९ ।। इति श्रुत्वा प्रतिश्रुत्य तां व्रजन्ती स कौतुकी। अन्वगारुह्य तुरगं हेमकूटपुरं ययौ ॥ १२० ॥ पुरं तदखिलोदारं पुरन्दरपुरोपमम् । चित्रं चैत्ररथं दृष्ट्वा प्रहृष्टः प्राप विस्मयम् ॥ १२॥ सन्ध्यायमानमभितः सान्द्रमणिमरीचिभिः । मध्ये तत्र महोछ्रायं महामेरुमिवापरम् ॥ १२२ ।। संचरत्तारकाचन्दसौधमण्डलवेदिकम् । गेहं गन्धर्वराजस्य जगाहे जातविस्मयः ॥ १२३ ॥ तत्र चित्राः समुल्लय सप्तकक्षास्तया समम् । ददर्श दक्षिणराजमन्दिरस्य महाद्भुतम् ॥ १२४ ॥ नवरत्नमयं सर्वनयनानन्दवर्द्धनम् । कन्यकागृहमैन्द्रेण धन्वनेव विनिर्मितम् ॥ १२५॥ युग्मम् । तत्र मुक्तामये कापि मध्ये महति मण्डपे । शरदम्बुदगर्भस्थं समाजमिव विद्युताम् ॥ १२६ ॥ सान्ततः पल्लवितं सान्दैराभरणांशुभिः । वीरुधामिव विद्योति कुलं कुसुमपल्लवैः ॥ १२७ ॥ तन्वपास्तसुरस्त्रैणमन्ववायमिव श्रियः । मन्यमानमनङ्गेन कन्यकाबन्दमैक्षत ॥ १२८ ॥ अथ नरपतिनन्दनस्तदानीमभिनवयौवनरूपभूषणानाम् ।
For Private and Personal Use Only