SearchBrowseAboutContactDonate
Page Preview
Page 168
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ४२ www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री अलङ्कारमण्डनम्. संनिर्जितो हरिणशावविशालनेत्रे त्वन्मध्यमेन तनुमध्यधरो मृगेन्द्रः । शक्नोति नो तव विरुद्धमयं विधातुं त्वनेत्रचित्रनयनां हरिणी क्षिणोति ॥ ८५ ॥ त्वत्पादपद्मे नयनाभिरामे तादृकपयोजद्वयमिन्दुवक्त्रे ! | तत्सेवकं कर्त्तुमिदं च पादैः सन्तापयत्येष रुषा मृगाङ्गः ८६ भाविकमाह प्रत्यक्षा इव दृश्यन्ते यत्रार्था भूतभाविनः । तद्भाविकमिति प्राहुरलङ्कारविदो यथा ।। ५६ । आसीनृसिंहस्य तवातिसेवा संभाव्यते साधुधियेति साधो ! । वनेष्यति स्वस्य पदारविन्दद्वन्द्वान्तिकं सोऽद्य ममेति बुद्धिः ॥ ८७ उद्दातमाह बाहुल्यमति वस्तूनां यत्रोदात्तं तदुच्यते । राजाङ्गणं तव करीन्द्रमदाम्बुधारपङ्काविलं परिजनाङ्घ्रिविलेपभीत्या । मुक्ताफलप्रकरशर्करिलं विभाति रत्नोपलामल निबद्धमिदं मुरारे ! ।। ८८ ।। अधिकमाह यत्राधारोऽथवाऽऽधेयमाधाराधेययोर्महत् । महतोरपि जायेत लघुत्वेऽप्यधिकं तु तत् ॥ ५७॥ रत्नाकर ! महत्त्वं ते वर्ण्यते किमतः परम् । यस्मिन्विशालाः सरितो मान्ति त्रैलोक्यसम्भवाः । For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy