SearchBrowseAboutContactDonate
Page Preview
Page 148
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४ श्रीअलङ्कारमण्डनम्. अधुना एतेषां रसानां स्थायिभावानाह-रतिर्हासच शोक कोधोत्साहो भयं तथा । जुगुप्सा विस्मयश्वेति स्थायिभावाः प्रकीर्त्तिताः ॥ ९ । अथ व्यभिचारिणः । निर्वेदग्लानिशङ्काख्यास्तथाऽसूयामदश्रमाः । आलस्यं चैव दैन्यं च चिन्ता मोहः स्मृतिर्धृतिः ॥ १० ॥ व्रीडा चपलता हर्ष आवेगो जडता तथा । गर्वो विषाद औत्सुक्यं निद्राऽपस्मार अव च ॥ ११ ॥ सुप्तं प्रबोधो हर्षश्चाप्यवहित्थमथोग्रता | मतिर्व्याधिस्तथोम्मादस्तथा मरणमेव च ॥ १२ ॥ सचैव वितर्कश्च विज्ञेया व्यभिचारिणः । त्रयत्रिंशदमी भावाः समाख्यातास्तु नामतः ॥ १३ ॥ इतिश्रीजिनभक्तेन मण्डनेन विनिर्मिते । चतुर्थोऽयं परिच्छेदो जातोऽलङ्कारमण्डने ॥ १४ ॥ ५. कोमला सुरसा वाणी वनितेव मनोहरा । जायते यैरलङ्कारानधुना कथयामि तान् ॥ १ ॥ अथालङ्कारोद्देशः पुनरुक्तवदाभासो वक्रोक्तिश्चित्रमेव च । अनुप्रासश्च यमकं श्लेषो मूर्द्धन्यड़ियाः ॥ २ ॥ अथार्थालङ्कयाजाती रूपकाख्यं तथोपमा । मालोपमानन्वयश्चोपमेयप्रचुरोपमाः ॥ ३ ॥ उपमेयोपमा चैवोपमानमचुरोपमा । उत्प्रेक्षाऽपहनुतिः श्लेषोऽतिशयोक्तिस्तु दीपकम् ॥ ४॥ For Private and Personal Use Only
SR No.020469
Book TitleMandan Granth Sangraha Part 01
Original Sutra AuthorN/A
AuthorMandan Mantri
PublisherLaherchand Bhogilal Shah
Publication Year1918
Total Pages175
LanguageSanskrit
ClassificationBook_Devnagari
File Size8 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy