SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ।। ६३ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ महाबलः शतबलं पुत्र' सागरतिलके नगरे स्थापयित्वा स्वयं च पृथ्वीस्थानपुरं गत्वा श्राद्धधर्मस्थितो राज्यपालयत् । तस्य च द्वितीयः पुत्रः सहस्रवलनामाऽभूत् । एवं भुजबलेन व्यन्तरबलेन च बहून् नृपान् वशीकृत्य राज्यं श्रीजिनधर्मं च पालयन्, विशेषतः साधुभक्तिं च कुर्वन् पश्चिमे वयसि गुरोः पार्श्वे प्रियया युक्तो दीक्षां जग्राह । सागरतिलके शतबलो राजा, पृथ्वीस्थाने च सहस्रबलो राजाऽभूत् । " अथ महालपिंगतार्थो भूत्वा गुर्वादेशाद् एकाकी विहरन् सागरतिलके सन्ध्यायां समेत्य बने कायोत्सर्गेण स्थितः । बनपालेन शतबलाय राज्ञे विज्ञप्तम् । सोऽपि हृष्टस्तस्मै दानं दवाऽचिन्तयत्- 'साम्प्रतमन्धकारोऽभृत् प्रातर्महोत्सवेन नन्तुं यास्यामः । अस्मिन् समये सा कनकवती स्थाने स्थाने भ्रमन्ती तत्रैवागता । बने गतं महामुनिं दृष्ट्वा दध्यौ -' एष मूलतोऽपि मे वृतान्तं वेत्ति । यद्यसौ मम स्वरूपं लोकाग्रे वक्ष्यति तदाऽहं कापि प्रवेशं न लप्स्ये ततोऽयं मार्यते तदा वरम् ' । इति विचिन्त्य तथा काष्ठानि वेष्टयित्वा मुनिर्ज्वलितः । महाबलमुनिः सुदुस्सहमुपसर्गं सम्यक् सहमान: केवलज्ञानमासाद्य सिद्धिं ययौ । प्रभाते शतवल उत्कण्ठितो नन्तुमागतः । मुनिस्थाने भस्म दृष्ट्वा शङ्कितः, क्वापि तातं न ददर्श, किन्तु पदानुसारेण सा छिन्ननासा दृष्टा । तया ताड्यमानया सर्व सत्यमुक्तं, तदा सा कदर्थनया मारिता पष्ठ नरकं ययौ । राजा दुःखाक्रान्तो विलप्य स्वस्थानं ययौ । मलयसुन्दरी महत्तरापदं प्राप्ता । महाबलनिर्वाणेन पुत्र' दुःखितं ज्ञात्वा प्रबोधायागता । तं प्रबोध्य पश्चात् सहस्रवलं प्रतिबोधयितुं पृथ्वीस्थानं पुरं गता । कतिचिद्दिनपर्यन्ते शतचलोऽपि महत्तरां नन्तुमुत्क For Private And Personal Use Only गद्यबद्ध - श्री मलय |सुन्दरी कथा || ।। ६३ ।।
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy