SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra गद्यबद्ध - श्री मलयसुन्दरी कथा ॥ ।। ५६ ।। www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir , अत्रावसरे सभायां सिद्धमुक्त करण्डात् शब्द उद्गतः - 'राजानं भक्षयामि मंत्रिणं वा भक्षयामि । इति श्रुत्वा सर्वेऽपि भीताः प्राहुः - 'सिद्ध एवायं गूढात्मा, तस्य शक्तिर्न सामान्या, करण्डे किमपि भयङ्करमस्ति' । तदा जीवमंत्री 'किं भयङ्करम् ?' इति वदन् लोकैर्वार्यमाणोऽपि तं करण्डमुदघाटयत् । तत्क्षणं करण्डादग्निज्वाला निर्गता । तथा तत्क्षण मंत्री भस्मीभूतः । सा च सभां ज्वालयितुं प्रवृत्ता । राज्ञा मीतेन सिद्ध आकारितः । तेन करण्डमाच्छाद्य जलेन च्छटा क्षिप्ता, सर्व शान्तं जातम् । ततः पुनः करण्डमुद्घाट्य आम्रफलानि लाखा सर्वेभ्यो दत्तानि । सर्वः कोऽपि चमत्कृतोऽचिन्तयत्- 'सत्य: सिद्धोऽयं स्यात् । अथ राज्ञा मंत्रिपदे मंत्रिसुत एव निवेशितः । पुनर्दिनद्वयेऽतिक्रान्ते सति सिद्धेनोक्तम्- ' अहं सभार्यो यामि' । परं राजा मलयसुन्दरीरागं न मुञ्चति । तं प्रति प्राह - 'भो ! एकं कार्यं कृत्वा यथेष्टं व्रजेः ' । सिद्धः सकोपोऽवकू - ' किं कार्यम् ?' । राज्ञोक्तम्4 ' तथा कुरु यथा स्वीयमुखेन पृष्ठं पश्यामि' | सिद्धेन रुष्टेन गलमामोटय मुखं पश्चात् कृत्वा प्रोक्तम् —' पश्य यथेष्टं पृष्ठम् | सभा क्षुब्धा । मंत्री प्राह - ' त्वं धूर्तः शिक्षायोग्यः' । तदा सर्वमन्तःपुरं तां वातां श्रुत्वा समेत्य सिद्धस्य पादयोर्लनम् । 'कृपां कुरु, नृपं स कुरु' । इत्यादिचादुभिर्भिन्नहृदयः स प्राह- 'यदि एवं पादचारेण पुराद् बहिर्गत्वा प्रासादस्यश्री अजितनाथप्रतिमां नत्वा समेति तदा सअं करोमि, नो चेद् एवंविधो मरिष्यति' । ततो राजा लोकैः सहास्य कौतुकं सदयं दृश्यमानो जिनं नत्वा आगात् । सिद्धेन नसां चालयित्वा For Private And Personal Use Only ॥ ५६ ॥
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy