________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuti Gyanmandir
तत्र सा बहुद्रव्येण विक्रीता। तत्रापि कलत्रभावैः प्रार्थिता नाऽमंस्त । ततस्तैौकस्तस्याः शरीरं तक्षित्वा रुधिरं निष्काश्य कृमिरागवस्त्राणि रज्यन्ते । पुनः पोष्यते तक्ष्यते च । एवमन्यदा सर्वाङ्गं तक्षिता रुधिरलिया मृच्छिता भूमौ पतिता । तदेकेन भारण्डेन आमिषवाञ्छया उत्पाटिता । स भारण्डः समुद्रोपरि गतोऽन्येन भारण्डेन रुद्धो योद्धं लग्नः । सा तन्मुखात् समुद्रे गजाकारमत्स्योपरि पतिता सती नमस्कारं पठति स्म । 'धिक कर्मगतिम् !' इति चिन्तयन्ती तेन मत्स्येन ग्रीवां वालयित्वा विलोकिता । ततः स मत्स्यस्तां भव्ययुक्त्या पृष्ठे वहन तटा. मिमुखं यातः । कस्यापि पुरस्य प्रत्यासन्नतटे पृष्ठादत्तार्य वलितग्रीवस्तां पश्यन् समुद्रान्तर्गतः । तस्मिन्नवसरे तटपुराधिपति: क्रीडार्थ तत्रागतस्तन्मत्स्यादिस्वरूपं दृष्ट्वा विस्मितस्तां बभाषे-'हे सुन्दरी ! का त्वं?, कथं मीनेनात्र सस्नेहतया मुक्ताऽसि ? । इदं सागरतिलकाख्यं वेलाकलं नगरम् , तस्याऽधिपोऽहं कन्दर्पनामा, तत वं विश्वस्ता सर्व कथय । इति श्रुत्वा तया चिन्तितम्- 'जागति ममाऽद्यापि कोऽपि पुण्यलयः, यतो यत्र मे पुत्रस्तत्रैव स्थाने प्राप्ताऽस्ति, कदाचित सोऽपि मिलेत् । परम् एष राजा मम पितृ-श्वशुरयोवैरी वर्तते, यद्यस्य सत्यं वक्ष्यामि तदा मां कदर्थयिष्यति, पुत्रमपि लास्यति । इति विचिन्त्य निःश्वसत्या तयोक्तम्-'कि पृच्छयते ?, अहं पुण्यहीना यत्र तत्र दुःखं सहमानाऽस्मि' । लोकेरुक्तम्- 'देव ! दुःखपूरिताऽधुना वक्तुं न शक्नोति, ततः किं पृच्छयते ? ' राज्ञोक्तम्- तथापि भद्रे ! स्वनाम बद' । तया मन्दमुक्तं ' मलयसुन्दरी' इति । राज्ञा सा स्वपुरुषैगृहे प्रेषिता । दासीमिः शुश्रूष्यमाणा सजशरीराऽभूत् । ततो राकान्ते सा कलत्रभावाय
गद्यबदश्री मलयसुन्दरीकथा ॥
For Private And Personal use only