SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ Shin Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagauti ya mandir गद्यपद्धश्री मलयसुन्दरी कथा ॥ ॥ १० ॥ गजापि ज्ञास्यति तदाऽनों भविता । अतो यदि त्वं कथयसि तदा ते रूपपरावर्त करोमि " कुमारेण हार मुखे क्षिप्त्वा कथिते सति योगिना किमप्यौषधं घृष्ट्वा भाले तिलकं कृतम् । कुमारः सर्पो जातः, अलम्बाद्रिगुहायां योगिना मुक्तः, स्वयं च स्वकार्ये प्रवृत्तः । ततः सर्पः सर्पधरेगेंहीत्वा घटे क्षिप्त्वा यक्षालयं नीतः । दिध्ये क्रियमाणे निजप्रियामुपलक्ष्य हारो मुखानिष्काश्य तत्कण्ठे क्षिप्तः, भालं च स्पृष्ट्वा स्त्रीरूपा कृता, गारुडिकैः सर्पश्च स्थाने मुक्तः । रात्रिमुखेऽर्कक्षीरेण ललाटं घृष्ट्वा कुमारो योगिना पुरुषरूपः कृतः । ततस्तौ श्मशानं गतौ । कुमारेण मृतकमानीतं, योगिना स्वपितं, चर्चितं, मण्डले च स्थापितम् । अग्निकुण्डं ज्वालयित्वा मन्त्रं स्मर्तु लग्नः । शवः पुनसल्ललति, पतति च । एवमर्धरात्रिर्जाता तावता आकाशे डमरुशब्दा जाताः । तदा कापि देवता समेता पाह-रे ! कुशुद्धं मृतकं, स्वर्णपुरुषो न सिध्यति' । इत्युक्त्वा तया कुपितया योगी वह्निकुण्डे क्षिप्तः । शवो बटमेव गतः । 'एनं सुरूपं को हन्ति ?' इति बदन्त्या देवतया नागपाशेन हस्तौ बदबा कुमारो वटे उल्लम्बितः । कुमारेण सर्पपृच्छं दन्तैश्चर्वितम् । सर्पो बन्धाद् उच्चलितो गतः, परं बाहुस्थितौषधप्रभावाद् विषं न चटितम् । अग्रे च तत्स्वरूपं ज्ञातमेव । एवंविधं स्वरूपं कुमारेणोक्तं श्रुत्वा राजा लोकाश्च प्राहुः-अहो ! श्रृण्वतामपि भयं जायते, कुमारेण कथमनुभृतम् ?' । एके प्राहुः- मृतकं किमशुद्धं कथितम् ?' । राज्ञोक्तम्-' यत् स्त्रीनासाग्रं तन्मुखे स्थितं सैव अशुद्धता घटते' । पुरुषैतकं धीक्षित, ॥४०॥ १. कुमारः ।। O For Private And Personal Use Only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy