SearchBrowseAboutContactDonate
Page Preview
Page 26
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra wwww.kobatirth.org Acharya Sh Gyanmand मुद्रारत्नं स्वहस्ते क्षिप्तम् । सा गता मगधागृहं प्रति । सोऽपि चचाल । नैमित्तिकवेषं कृत्वाऽग्रे गच्छन् नदीतटे काष्ठसमुदाय मिल्यमानं ददर्श । 'किम् ?' इति चिन्तयन्नग्रे गच्छन् गजेन्द्रं चरन्तं तस्य विष्ठां शोधयतः पुरुषांश्च ददर्श । पप्रच्छ च-को हेतुर्विष्ठाशोधने ?' । तैरुक्तम् -' श्रीवीरधवलस्वामिनः पुत्रेण मलयकेतुना स्वर्णश्रृङ्खलिका रवजटिता समुल्लालिता गजचारमध्ये पतिता । गजेन गिलिता । यदि स्यात्तदा विष्ठामध्ये लभ्यते' । यावद् एवं स तैः सह वार्ता करोति तावता आक्रन्दयुक्तः कोलाहलोऽजनि । कुमारेण पृष्टम् -' किं भो घटते ? ' । तैरुक्तम्-'मलयसुन्दरीदुःखेन राजा राज्ञी च चितां प्रविशतः, स कोलाहलः' । तदा कुमारः कामपि मर्ति मनसि धृत्वा कन्याया मुद्रिका गजचारमध्ये प्रच्छन्नं चिक्षेप । तस्मिस्तत्र स्थिते एव गजेन सा गिलिता । ततः कुमारो नदीतटं प्रति दधावे । भुजद्वयमुत्पाट्य गाढं वक्ति स्म-भो भो लोका ! वार्यतां वार्यताम् , गजाग्रे कथ्यते मलयसुन्दरी जीवति' तदा कैश्चिल्लोकमन्त्रिणामग्रे कथितम् । तैश्च धावित्वा लग्ना चिता विध्यापिता । राज्ञा पृष्टम्-'को हेतुः ? । तावता कुमारोऽपि भूपपार्श्व प्राप्तः 'चिरं जय जय' इति त्रुवन् । राज्ञोक्तम-त्वं का ? किं कथयसि ?' । तेनोक्तम्-' अई नैमित्तिकः । निमित्तेन जानामि तव सुता जीवति । चेद् न प्रत्ययस्तदाऽभिज्ञानं वच्मि-यदि त्वत्पुरुषाः कन्याया मुद्रिकां कुतोऽप्यानीय दर्शयेयुस्तदा मद्वचः सत्यं, नो चेन्न' । इति श्रुत्वा राजा चिन्ताया चितायाश्च बहिनिर्गतः । पुनस्तं पप्रच्छ-'भो नैमित्तिक ! तस्याः स्वयंवरार्थे नृपा आहूताः सन्ति, चतुर्दश्यां स्वयंवरोऽस्ति, तदर्थे किं करिष्यते ?' । तेनोक्तम गद्यबद्धश्री मलयसुन्दरीकथा ॥ ॥ २५॥ For Private And Personal Use Only
SR No.020468
Book TitleMalaysundari Katha
Original Sutra AuthorN/A
AuthorManikyasundarsuri, Kalaprabhsagar
PublisherYugpradhan Dada Shree Arya Jay Kalyan Prakashan
Publication Year
Total Pages66
LanguageSanskrit
ClassificationBook_Devnagari
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy