SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ( २६ ) खिद्यन्त्यहो ! सहिरहेऽपि साधवः ॥ १५६ ॥ ततो व्यतीत्य त्रिदिनीममू मुनी मुक्त्वा पुरं कर्णपुरं समागतौ । आग्रापुरं श्रीगुरुदर्शनोद्भवामोदौ पयोदमतिष्ठतामिह ॥ १५७ ॥ आशास्महे ऽन्तःकरणेन निर्भरं महानुभावः स मुनिर्महेश्वरः । अस्मत्परोक्षं परलोकमाश्रितः प्रपद्यतां निर्मलसातसंततिम् ॥ १५८ ॥ अतः परं त्वन्मुखदर्शनं गतं कथाप्रसङ्गस्य कथा तु का भवेत् ? । संबन्ध एवैत् किमनल्पमुच्यते विभीषणा हन्त ! भवस्य पद्धतिः ॥ १५९ ॥ अभ्यर्थनां कुर्म इमां महेश्वर ! स्वशक्तिलब्धे परलोकवैभवे । आकण्ठमनोऽपि कृपां विधाय नः कदाचनानेष्यसि वर्त्मनि स्मृतेः ॥ १६० ॥ कृतिरेषा शास्त्रविशारदजैनाचार्यश्रीविजय धर्मसूरीश्वरचरणकमलमधुकरायमाणमुनिशिशुन्यायविजयस्य ।
SR No.020466
Book TitleMahendraswargaroha
Original Sutra AuthorN/A
AuthorNyayavijay
PublisherGujarati Shravako
Publication Year
Total Pages31
LanguageSanskrit
ClassificationBook_Devnagari
File Size2 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy