SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आनन्दपूर्ण-श्रीभुवनसुन्दरसूरिकृतटीकायुतं १९ अयं घटः एतद्धटनित्यनिष्ठत्वरहितैतच्छन्दनिष्ठाधिकरणं मेयत्वादिति ॥ एतस्मिन्घटे नित्ये च ये वर्तन्ते तेषु एतद्धनित्यनिष्ठत्वं धर्मः । तद्रहितश्चैतद्धटनिष्ठत्वरहितो वा, नित्यनिष्ठत्वरहितो वा। आद्यः पक्षे व्याहतः । नित्यनिष्ठत्वरहितस्तु पक्षीकृतशब्दनिष्ठस्तबैव स्याद्यदि पक्षीकृतः शब्दो नित्यो न भवेत् । पक्षीकृतशब्दनित्यत्वे तन्निष्ठस्य नित्यनिष्ठत्वेन तद्रहितत्वानुपपत्तेः । तेन नित्यनिष्ठत्वरहितः पक्षीकृतशब्दनिष्ठो घटे सिध्यन् पक्षीकृतशब्दानित्यत्वमन्तर्भाव्य सिध्यतीति । एतद्धटनित्यनिष्ठत्वरहिताधिकरणमित्युक्ते घटत्वादिना शब्दनित्यत्वेऽप्युपपद्यमानेन एतद्धटनिष्ठेन अर्थान्तरता स्यात् । तन्निवृत्यर्थमेतच्छन्दनिष्ठग्रहणम् । एतच्छन्दनिष्ठाधिकरणमित्युक्ते शब्दनित्यत्वेऽप्युपपद्यमानैर्मेयत्वादिभिरेतद्धनिष्ठुरन्तरता स्यात् । तन्निवृत्यर्थमेतद्धनित्यनिष्ठत्वरहितग्रहणम् । नित्यनिष्ठत्वरहितैतच्छनिष्ठाधिकरणमित्युक्ते नित्यपदार्थेषु साध्याभावः । तन्निवृत्त्यर्थमेतद्धटग्रहणम् । यद्यपि नित्यपदार्थेषु नित्यवृत्तित्वरहितो नास्ति, तथाप्येतद्धटनित्यनिष्ठत्वरहितः एतद्धटान्योन्याभावः एतच्छन्दनिष्ठोऽस्त्येवेति नित्यपदार्थेषु साध्यानुगमसिद्धिः ॥ १९॥ १९ (आनं०)- x x धिकरणमित्युक्ते व्याप्त्यसिद्धिनित्येषु तदसम्भवादत उक्तम्नित्यनिष्ठत्वरहितेति | घटान्तरप्रवृत्तिरहितेन स्वमात्रनिष्ठधर्मेणार्थान्तरत्वं निवर्तयति-एतदिति । एतद्धटनित्यनिष्ठत्वरहित एतदवृत्तिर्वा नित्यवृत्तिरहितो वा । आद्यः पक्षे व्याहतः, द्वितीयस्तु शब्दनिष्ठो धर्मः पक्षे सिध्यन्ननित्यत्वं शब्दस्य भावयेदिति भावः । व्याकरोति-एतद्धट इति । विशेषणकृत्यमाह-घटत्वादिनेति ॥ १९ ( भुवन० ) अथाभिनवप्रकारेण महाविद्यान्तराणि प्राह-अयं घटः एतद्धटनित्यनिठत्वेत्यादि । एतद्बटश्च नित्याश्च एतद्धटनित्याः । तेषु निष्ठा येषां ते एतद्भुटनित्यनिष्ठास्तेषां भावस्तत्त्वं । तेन रहितश्चासावेतच्छब्दनिष्ठश्च तस्याधिकरणं घट इत्यर्थः । अत्र साध्यो धर्मो विश्वप्रतियोगिको घटशब्दान्योन्याभावः । दृष्टान्तधर्मस्तु पक्षान्योन्याभावः सर्वत्र द्रष्टव्यः । अथैतां महाविद्यां व्याचरीकरोति-एतस्मिनित्यादि । अथान्त्यविशेषणं विमुच्य व्यावृत्तिचिन्तां करोतिएतद्धटनित्यनिष्ठत्वरहितेत्यादि । घटत्वादिनेति । घटत्वादिना यथोक्तयुगलावृत्तित्वान्नित्येष्ववर्तमानेन घटे च वर्तमानेन शब्दस्य नित्यत्वेऽपि साध्ये उपपद्यमानेनार्थान्तरता स्यात् । तन्निवृत्यर्थमेतच्छब्दनिष्ठेति पदग्रहणम् । अथाद्यविशेषणं परित्यज्य व्यावृत्तिं चिन्तयति-एतच्छब्दनिष्ठेत्यादि। १ नित्यत्वे तनिष्ठत्ये' इति ग पुस्तकपाठः । २ शब्दस्यानित्य इति ज पुस्तकपाठः । ३ आनन्दपूर्णकृता टीका आदर्शपुस्तके त्रुप्यनन्तरं पुनरित आरभ्य लब्धा । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy