SearchBrowseAboutContactDonate
Page Preview
Page 114
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प० १ महाविद्याविडम्बनम् | ६५ निष्ठत्वरहितश्च । तस्याधिकरणमित्यर्थः । अधिकरणमित्युक्ते मेयत्वादिसक्ति व्यावर्तयति — नित्यनिष्टत्वरहितेति । नित्यनिष्ठत्वरहिताधिकरणमित्युक्ते व्यात्यसिद्धिः, नित्यपदार्थेषु तदसम्भवादत उक्तम्- -नित्यत्वाव्याप्येति । नित्यत्वस्य नित्यनिष्ठत्वेऽपि नित्यत्वव्याप्यत्वेन तद्व्याप्यत्वे सति यन्नित्यनिष्ठत्वं ( तत् ? ) नास्तीति नित्येषु साध्यसिद्धिः । नित्यत्वात्र्याप्यनित्यनिष्ठर हिताधिकरणमिति च नित्यत्वेनार्थान्तरमत उक्तम् — नित्यत्वव्याप्यत्वरहितेति । नित्यत्वस्य नित्यत्वव्याप्यत्वे - ऽपि नित्यत्वव्यतिरिक्तत्वे सति तद्वयाप्यत्वाभावात्पुनरपि तेनैवार्थान्तरं व्यावर्तयति — गगनैतच्छतित्वरहितेति ॥ ११ ॥ ११ ( भुवन० ) – गगनं गगनैतच्छन्देत्यादि । गगने एतस्मिन् शब्दे च ये वर्तन्ते तेषु गगनैतच्छब्दवृत्तित्वं धर्मः । तद्रहितश्चासौ नित्यत्वव्यतिरिक्तत्वे सति नित्यत्वव्याप्यत्वरहितश्च स चासौ नित्यत्वव्याप्यत्वे सति नित्यनिष्ठत्वरहितश्च तस्याधिकरणं गगनमित्यर्थः । अत्र साध्यो धर्मः पक्षे नित्यत्वम् । तस्य च द्वितीयतृतीयविशेषणविशिष्टस्यापि नित्ये शब्देऽङ्गीक्रियमाणे नित्ये गगने नित्ये च शब्दे वर्तनाद्गगनैतच्छब्दवृत्तित्वमेव स्यात्, न तु गगनैतच्छन्दनिष्ठत्वरहितत्वम् । तस्मान्नित्यत्वस्याविशेषणविशिष्टत्वानुपपत्तेः शब्दस्यानित्यत्वमङ्गीकार्यम् । दृष्टान्ते च घटपटादौ घटवादिरनित्यत्वादिर्वा धर्मोऽवबोध्यः अत्र च शब्दो गगनेतरनित्याच पक्षतुल्या इति न तेषु साध्यप्रसिद्धिः । सङ्क्षेपेण व्याचष्टे – अत्र च नित्यत्वेत्यादि । इयं च महाविद्या पूर्वमेव पक्षपक्षी - करणप्रवृत्तमहाविद्योदाहरणावसरे सविस्तरं व्याख्यातेत्यतिदिशति - इयं चेति ।। ११ ।। - १२ गगनं गगनशब्दद्वृत्तित्वरहितनित्यत्वव्यतिरिक्तनित्यत्वव्याप्यत्वरहितनित्यत्वाव्याप्यनित्यनिष्ठत्वरहिताधिकरणं मेयत्वादिति ॥ १२ ॥ १२ ( भुवन ० ) - गगनं गगनशब्दवृत्तित्वेत्यादि । एतस्याः पाश्चात्याया महाविद्यायाः पृथगुपादानकारणं पूर्ववदेव वेदनीयम् । इति विपक्षं पक्षीकृत्य प्रवृत्ता द्वादशमहाविद्या उदाहियन्त॥ १२ ॥ अथ साध्यं पक्षीकृत्य प्रवर्तमाना महाविद्याभेदा दर्श्यन्ते यथा १ अनित्यत्वं अनित्यत्वान्योन्या भाकयतिरिक्तैतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्टत्वरहिताधिकरणं मेयत्वात् घटवदिति । अनित्यत्वान्योन्याभावयतिरिक्तश्चासौ एतच्छदनिष्ठात्यन्ताभावप्रतियोगिनिष्टश्च । तस्य धर्मः अनित्यत्वान्योन्याभावव्यतिरिक्तैतच्छन्दनिष्ठात्यन्ताभावप्रतियोगित्वम् । तद्रहितश्च अनित्यत्वान्योन्याभावो वा स्यात्, एतच्छब्दनिष्ठात्यन्ताभावप्रतियोगिनिष्टत्वरहितो वा । आद्यो व्याहतः । न हि अनित्यत्वमनित्यत्वव्यतिरिक्तमिति संभवति । एतच्छन्दनिष्ठात्यन्ताभावप्रतियोगिनिष्ठत्वरहितश्च अनित्यत्वे तव स्यात्, यद्यनित्यत्वमेतच्छन्दनिष्ठात्यन्ताभावप्रतियोगि न स्यात् इत्य २ महाविद्या विडम्वनादर्शपुस्तकेषु च्छन्दनिष्ठत्वर' इति पाठो विद्यते । २ योगिनिष्ठत्वम् । इति ज पुस्तकपाठः । For Private And Personal Use Only
SR No.020464
Book TitleMahavidya Vidambanam
Original Sutra AuthorN/A
AuthorVadindra Bhatt, Anandpurna, Bhuvansundarsuri, Mangesh R Telang
PublisherCentral Library
Publication Year1920
Total Pages247
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy