________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
५६
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
"
लोगपरिच्छेयकारिणो जुत्ते 'त्यादि । अमूर्तश्चासौ निष्क्रिय एव च । अन्यथा तस्याऽप्यपरसाहाय्यकारकस्वीकारापत्तेः भवेच लोके तच्छ्रन्योऽपि भागः । तथासति तस्य लोकत्वाभावेनानियतो विभागः स्याद् लोकाख्यः | सावयवश्चायं प्रतिनियमितप्रदेशेष्वाकाशस्य विशिष्ट क्रियानिवर्त्तनात् । न चावच्छेदकता निरवयवे परमाणोरिव सम्भवति, अवयवारब्धत्वलक्षणसावयवत्वभावान् । निरवयवत्वं चेदुपचरितं तत्र वास्तवं विहाय स्वरूपं तत्त्वाख्यानोपयोगीति । तथा च युक्ता एवासङ्ख्या एवं प्रदेशलक्षणा अवयवाः । तस्यानन्तत्वे आकाशवन्तदवयवानां तदङ्गीकारवैयर्थ्यापत्तेः । सहख्यातत्वे च न स्यात् पारमार्थिकी कल्पनांशानां न भवेच्चासङख्यातप्रदेशपरिमाणलोकसमप्र प्रदेशव्यापिता ।
?
तथा
धम्म 'ति । धर्मस्य - प्रोक्तस्वरूपस्य धर्मास्तिकायस्य विपक्षisaः । विपक्षता च स्थितिपरिणतानां जीवपुद्गलानां स्थितौ साहाय्यकारकत्वात्, निदाघतप्तपान्थानामगच्छायावत् । नहि सा प्रेरयति तान्, किन्तु साहाय्यं विधत्ते । न चानिमित्ता गतिवत् स्थितिरपि भवतीत्यावश्यकी कल्पनाऽधर्मस्तिकायस्यापीति न धर्मास्तिकायसाहाय्याभावमात्रेण तद्वैयर्थ्यम् । कथमन्यथा पुण्याभावमात्रता पापस्य, पुण्यस्य वा पापाभावमात्रता न स्यात् ? । जीवपुङ्गलानां परिणामविशेष एव च स्थितिः न गत्यभावरूपेति वास्तवी भिन्नताsधर्मास्तिकायस्य । अनेनाप्यपास्ता एव ते, ये अन्यथाप्रलापिनो वावदूकाः खण्डनग्रहग्रहिला य आहुः एवमत्रापि - 'यत् उर्ध्वग मनशीलस्य जीवस्य देहे स्थितिहेतुरधर्म इति, उर्ध्वगमनशीलो जीवस्वस्य देवस्थानेनाधर्मोऽनुमीयते ' इति च । एतद्वयभावाभाव
"
For Private And Personal Use Only