SearchBrowseAboutContactDonate
Page Preview
Page 34
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका प्रवर्तयति वेति । अष्टविधैश्वर्यं परमेशितुरप्रतिघं च तदपीति तु माला-दवरकन्यायेन अप्रतिघपदस्यात्रापि सम्बन्धात् । यद्यपि च सन्त्येव ज्ञानवैराग्यधर्मा अप्रतिघास्तस्य परमेश्वरस्योत्कृष्टत्वहेतवः, तथाप्यसाधारण्यादैश्वर्यस्य, तैरेवात्र परमताभिमता ( उत्कृष्टता) तथाविधश्चासौ पुरुषः , पुरि शयनात् । यथारुचि शरीरस्वीकारा. पेक्षया हि पुरि शयनमस्य । व्युत्पत्तिमात्रं वैतत् । प्रवृत्तिनिमित्तं तु चेतनावत्त्वमेव, जीवमात्रस्यैतेनाभिधानात् । यतः आचार्यपादाः" क्षेत्रज्ञ आत्मा पुरुष" [ अभिधान० ] इति । तथा च परमपुरुषशब्देन परमात्मैवाभिहितोऽत्र, तस्यैवोक्तलक्षणत्वात् । आदिशब्दाच प्रकृतिदेवादिग्रहः, तैः कृतो-विहितो, नाऽयं लोक इति बोध्यमनुवर्त्य । तथा च पञ्चास्तिकायमयोऽयं लोकः स्वयं वर्तते अनादिमान् । न च परमपुरुषादिकृतः । परमपुरुषादिकृतत्वं च परैः प्रोच्यते एवेति नानङ्गीकृतोपालम्भः । तत्राऽप्यनेकाः प्रकाराः सृष्टिसर्जनवादिनामपि । तत्र एके ईश्वरमुपादानतयैव जगत उदाहरन्ति, उदाहरन्ति च यथा 'प्रकृतिश्च प्रतिज्ञादृष्टान्तानुपरोधात्' वृत्त्येकदेशोऽस्य भाष्यगःपूर्वपक्षितं तत्र ब्रह्मणो निमित्तकारणतया जगतो यथाऽवतारयितुमुक्तं ' ब्रह्म जिज्ञास्य ' मिति । ब्रह्म च 'जन्माद्यस्य यत ' [व] इति लक्षितम् । तञ्च लक्षणं घटरुचकादीनां मृत्सुवर्णादिवत् प्रकृतित्वे कुलाल-सुवर्णकारादिवत् निमित्तत्वे च समानमिति । अतो भवति विमर्शः-किमात्मकं पुनर्ब्रह्मणः कारणत्वं स्यादिति । तत्र निमित्तकारणमेव तावत् केवलं स्यादिति प्रतिभाति । कस्मात् ? ईक्षापूर्वककर्तृत्वश्रवणात् । ईक्षापूर्वकं हि ब्रह्मणः कर्तृत्वमवगम्यते-' स ईक्षा For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy