SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविशिका नियमाच्च । अन्यथाविधस्य तु लोकस्य पक्षत्वे कल्पनासिद्धः पक्षः, प्रत्यक्षता च हृद्वर्तितयेति समवसेयम् । अत्रेदमैदम्पर्यम्-अस्तिका यानाम् “ नासतो विद्यते भावो नाऽभावो विद्यते सत" इति "नित्यावस्थितानी" [ तत्त्वार्थ. ] ति · द्रव्याणां नाशाभावः' इति नियमाच्च अस्तिकायानां नित्यत्वमस्तिकायपश्चकात्मकत्वाच्च लोकस्यापि नित्यत्वमित्यनादिमत्ताऽस्य । न च वाच्यम् अप्रतीतमेव साध्यं स्याद्, द्रव्यापेक्षया च लोकस्य परैरण्यनादिताऽभ्युपगतेति तेषां प्रतीतैव, धर्माऽधर्मयोरनभ्युपगमेऽपि आकाशजीवपुद्गलानामनादित्वाभ्युपगमात्तैरिति । कैश्चिदाकाशादीनामप्युत्पत्तिमत्त्वाभ्युपगमात् । यैरपि चाभ्युपगता आकाशादीनां नित्यता, तैरपि न भवानुभावस्य नित्यताभ्युपगता क्षेत्रपरिणामादेश्व, तावपि च द्रव्यलोकान्तर्गततया प्रवाहनित्यावेवेति स्पष्टमेवैषां प्रतीतत्वाभावः । यदि वा “ वर्त्तते " इत्यनेन वर्तमानकालीनप्रत्ययान्तेन साम्प्रतीनव्यवस्थायुक्तलोकस्यानादिवर्तनासाधनायोपक्रम इति ध्वन्यते । न च वाच्यं कथमेतद्युज्यते ? , अवसर्पिण्युत्सर्पिण्योर्वर्तमानव्यवस्थाविलोपस्य कालविशेषे भवदभियुक्तैस्तदनुसारिभिर्भवद्भिरङ्गीकारात् । प्रवाहानादितायाश्चान्यैरपि “ उपपद्यते चाप्युपलभ्यते चे "ति, “ यदा यदा हि धर्मस्ये "ति, “सम्भवामि युगे युगे" इति, "सूर्याचन्द्रमसोर्धाता यथा पूर्वमकल्पयत्" इति, मन्वन्तरासङ्ख्याधिकारश्रवणाच्च ब्रह्मसूत्र-भगवद्गीता-ऋक्संहिता-योगवशिष्टादौ स्वीकृतैवेति का विप्रतिपत्तिः ? यन्निरसनाय युज्येत प्रस्तुतप्रकरणं प्रस्तुतं ध्वननं चेति । For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy