SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir રરક लोकविशिका तम् , लेखयन्त्यपि च । तथैव रोगादौ जाते, जाते ऽथवा स्वजनमरणे वाऽनुचिते वा कार्य तथाविधे वदन्ति लिखयन्ति वा यद्-ईश्वरामिरुचिरेतादृशी नात्राऽस्मत्कृतिः काचिदिति । __यच्च श्रीमतां विनाशितसमूलरागद्वेषभावानामखिलपापस्थानपरिहारदेशनादक्षप्रवृत्तिमतां श्रीजिनानां नावबुद्धं गुणगणशतभागीयमपि वर्णनं, कथमन्यथा दुःखपरिहारपरायणानामखिलजन्तुजातानां परमकारुणिकानामभयदापनपटूनां साम्यं जगदःखीकरणमात्रज्ञापितसत्त्वेन भवदभिमतोच्छिष्टतमेश्वरेण साम्यं सत्या इव वेश्यया । यत उच्यते परममुनिमिर्भवादृशानेवाधिकृत्य वीतरागस्तुतौ त्वच्छासनस्य साम्यं ये मन्यन्ते शासनान्तरैः। विषेण तुल्य पीयूषं तेषां हन्त हतात्मना ।। 'मिति । यच्च न्यगादि दृढतरकर्तृत्वाऽऽग्रहग्रहमथिलतावेदकं वचो ' बद्धकर्मापनयने 'त्यादि । तदप्यनभिज्ञतमतासूचकमेव । यतस्तथा सर्व एव प्राणिगणो विशेषतश्च व्याधादयो विशेषतरं च संसारमोचका उपकारिणो जगताम् । यतस्तेऽपि विनाशयन्ति यान् यान् प्राणिगणान् तान् तान् मोचयन्त्येव स्वस्वकर्मभ्यः । नहि तेऽपि प्राणिगणान् तादृशान् व्यापादयितुं शक्नुवन्ति, यैन विदधिरे पापम् । स्यादेतत यदि ते स्वतन्त्रं विदध्युः । न चास्ति तेषां स्वातन्त्र्यम् , 'ईश्वरप्रेरितो गच्छेत् स्वर्ग वा भ्रमेव वेति वचनात् , 'यो लोकत्रयमाविश्ये ति वचनाद्वा तेषां परमेश्वरप्रेरितत्वादिति चेद् , आः बलवत्तरता मोहमहीभृतो यत्प्रभावादाचर्यते बिडालाचारः । पश्यति हि स दुग्धं, न तु यष्टिम् । तथा भवन्तोऽपि स्वपक्षसिद्धिमलीका, न For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy