SearchBrowseAboutContactDonate
Page Preview
Page 244
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका २२१ भवद्भिः प्रलापिभिः-यत् नास्ति प्रयोजनमित्यादि । यतोऽस्त्येव प्रयोजनवत्ता तस्य प्राणिनां सुखदुःखसर्गादौ, क्रीडादि तदर्थमेव च प्रवृत्तिः । न च सरागता तयाऽऽपादयितुं शक्या भवद्भिः । क्रीडाया ऐश्वर्यनिबन्धनत्वाद्, दृश्यत एव च लोकेऽपि-यथा यथैश्वर्यवृद्धिस्तथा प्रचुरीभावः क्रीडायाः । सरागता तु तस्य 'ज्ञानमप्रतिघं यस्य वैराग्यं च जगत्पतेः । ऐश्वर्यं चेव धर्मश्च सह सिद्धं चतुष्टय' ।।१।। मिति वचनान्न लेशतोऽपि सम्भाविनी । प्रयोजनवत्तापि सामान्यप्रवृत्तिसाध्यमात्रतालक्षणा, न तु स्वेच्छापूर्विकेति । अन्यच्च-दुःखबहुलीभावापन्नान् प्राणिनः कुर्वतस्तम्य स्पष्टं भावितात्मनां वैराग्यापादनलक्षणं प्रयोजनम् । न च तथाविधे प्रयोजने न सरागत्वापत्तिः। भवतामपि श्रीजिनेश्वरेषु तथाप्रवृत्तिसद्भावादवश्यं सरागत्यप्राप्तेः । किश्च-प्राणिनां बद्धकर्मापनयनाय च तस्य प्रवृत्तिः न कथश्चनापि दूषयितुमलमीश्वर ईश्वरोऽपि, तन्नायोग्यतेश्वरस्येति चेद् । आः ! परमपुरुषप्रणीतपरमपथावगणनतिरस्कृतसम्यगविलोचनपरमपवित्रपरमपुरुषपावित्र्यप्रमोषमूषकपरमज्ञाननिचयाभिहताखिललोकालाकगतान्धकरणान्धतमसततेर्भगवतोऽपि कलङ्कदाने न चिन्तयस्युचितानुचितम् , यतः स्वीकृतमेव भवता क्रीडाया दुर्गतिगमनप्रस्थानानुकूल. प्रवृत्तिमदेश्वर्यान्धितात्मदृशामुदाहरणेन सरागता । तथा चाख्यायते नाचिकेताख्यानेऽपि यतस्तत्र त्रिषु दीयमानेष्वपि वरेषु नैच्छत् स तान् किन्तु मृत्योरभावमेव । तथा 'न वा अरे ! पत्युः कामाय पतिः प्रियो For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy