SearchBrowseAboutContactDonate
Page Preview
Page 239
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ लोकविंशिका 1 लदा सा नाऽभूत् १, तथात्वे तस्या अनित्यत्वापत्त्या तत्कारणं किविदन्वेषणीयं स्याद् भवताम् । तथा चाभ्युपगतहानिः स्पष्टेव । यदि चाऽभूत् नित्यत्वात्तस्याः, तदा तस्या जगत्करणस्वभावत्वात् कथं न तयोत्पादितं जगत् ? । तथा चेत् स्पष्ठैव प्रकृतिनित्यतावद् जगतोऽपि नित्यतापत्तिः । पश्चाज्जायते जगदित्यङ्गीकारे च स्पष्टैवोपपत्तिर्हीनता पश्नस्येत्येतद्विचारयितव्यं भवद्भिरित्युक्तं भवति । न च कथं पूर्वमभावादित्येवं नुन्नमनुन्नबोधैः सूरिभिः पश्चादपि तत्करणस्यापादनीयत्वादिति वाच्यं तथाऽऽपादयितुं शक्यत्वेऽपि प्रकृते ऽनादितासिद्धयर्थमेवोद्योगः सूरीणामिति नार्थः पश्चात्तदापादन । नहि निरर्थकं नोदनं नोदनाविदामनुन्नशोभायै भवतीत्याहुः । अत्रापि भावयितव्यमिति तूपहासगर्भमेव । यतो यो न बुद्धयते स्वाभ्युपगतव्याघातकं वचनम्, स कथं न भवति भावितनयमार्गाणां हास्याय, इत्येवं सामान्येन साधितेऽनादित्वे लोकस्य, सामान्यवादिनं साख्यान् वा निरीश्वरान् निराकृत्य परमैश्वर्यराजितपरमेश्वरभक्ता निरन्तरा उत्तिष्ठन्त एव यदुत यद्यनादिनिधनो लोकः तदभिन्ना अस्तिकाया वा तथा परमैश्वर्यसम्पन्नपरमेष्ठि साधकं प्रमाणं विलीयेत वृक्षोच्छ्रायेण मूलमिव दृश्यमानकृत्यैव तस्य प्रमीयमानत्वात् । उच्यते च - ' प्राणाय नमो यस्य सर्वमिदं वशे यो भूतः सर्वस्येश्वरो यस्मिन् सर्वं प्रतिष्ठितं ' इति ' इन्द्रेहविश्वा भुवनानि येमिरे इन्द्रेश्वानास इन्द्र' इति ' तथाभूतस्य जातः पतिरेक आसी'दित्यादि । अनुमीयमानता च तस्य स्पष्ठैव 'संसारमहीरुहस्य बीजाये ' त्यनेन 'ॐ नमः सर्वभूतानि विभ्य परितिष्ठते ' इत्येतेन ' जगतां हेतुमीश्वर' मित्यनेनेत्येवमुत्थितान् वादिनः पूर्वमेव स्थापित स्वपक्षानाहुराचार्याः ; For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy