________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
१७७
स्याप्युत्पादस्वीकारात् । पर्यायोत्पादस्वीकारकाणां तु शुष्काईदहनन्यायेन । यद्वा-प्राकाले पर्यायरहितताभ्युपगमस्य परप्रवर्त्यता वा द्रव्ये पर्यायाणां निराकत्तुमभिप्रेतेत्यलमतिप्रसङ्गेन ।
___कथमेतत् ? इति चेद्, उच्यते-'तथा तथा निजस्वभावत' इति । हेतुरुक्तोऽनेन पूज्यैः । एषां चानादिनिधनत्वं तथा तथा तेषां स्वभावादेव । न च स्वभावे शक्या कर्तुं विप्रतिपत्तिम् । अन्यथा ' दहति कृशानुः, नाऽऽप' इत्यत्रापि विलोकनीयमेवाकाशम् । 'तथा तथे 'ति द्विर्वचनं धर्मादीनां प्रत्येकस्वभावताज्ञापनाय। 'निजेति तु परस्परभिन्न स्वभावाताज्ञापनाय । 'स्वभावे 'ति च कृत्रिमत्वाभावाय, पञ्चमी च हेतुत्वाय । तथा च स्वभाव एव धर्मास्तिकायस्य तथाविधः तस्य, यन्नोत्पद्यतेऽसौ न च याति नाशम् । तथाऽधर्माद्या अपि । कथमिति चेद् , आद्यास्त्रयस्तावदरूपा अजीवाश्च । अरूपाणां च विनाशकारणमुत्पादकारणं च न किश्चित् । तद्धि भवत् किं रूपि भवेदितरत् वा' । आये, नहि नभसः खड्गादिना खण्डनं मण्डनं वा भवति यथा, तथारूपिणोऽकिश्चित्करा एव पदार्था अरूपिविषये।
किञ्च-न तावदरूपिभिर्भवति सम्बन्ध एव रूपिणां तथाविधः , येन विदध्येरन् किश्चित्ते । न च ते चेतनाः, येनाऽध्यवसायेन भवेद् बन्धवदात्मनो रूपिभिस्तथा सम्बन्धः । इतरच्चेत्, तदपि परिफल्ग्वेव वचः । यतो नह्यरूपि करोति किञ्चिदप्यचेतनमुपग्रहोपघातौ । तन्न रूपिभिररूपिभिर्वा धर्मादीनां विनाश उत्पादो वा घटामश्चति । विनश्य वा किं भवेत् रूपवदरूपवद्वा अन्यत् किश्चिद् । नाद्यः, रूपाघागमस्थान्यतोऽभावादन्यथा आत्माकाशयोरपि तथात्वापत्तेः । अरूप
For Private And Personal Use Only