SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका र्थापेक्षया तस्यापीष्टत्वात् प्रसङ्गत्वाभावात् , प्रसङ्गो हि अनिष्टापत्ती, सैव च नात्र । व्यपदिश्यते च-' असङ्ख्येयाः प्रदेशाः धर्माधर्मयोः' 'आकाशस्यानन्ता' [तत्त्वा०] इति । असङ्ख्येया धर्मास्तिकाया इति त्वसमर्थत्वान्नाभिधेयम् , प्रदेशापेक्षयैवासङ्ख्यातत्वात् । यदपेक्षयैव बहुस्वं वस्तुगतं तदपेक्षया तद्वचनस्य न्याय्यत्वाद् , यथाहिव्यवहारे दारशब्दस्य पुंसि बहुवचनान्तत्वे नियते, न तदर्थवाचकस्त्रीयोषिदादिशब्दानामपि तथाप्रयोग उचितः । एवमत्रापि । किश्चअसङ्ख्यप्रदेशो लोको गतिस्थित्यवगाहसाहाय्यस्वभावानि चैतानि प्रतिप्रदेशं विद्यन्त एव, तन्नानेकद्रव्यता तेषां सफला, न चास्ति । कथं भवत्यवस्थानमेकस्मिन् प्रदेशे त्रयाणां भिन्नरूपाणामिति ? चेद् , रूपिणामपि तावत् पूर्वप्रतिपादितसुवर्णपारदन्यायेनाविरोधे को विरोधोऽमूर्त्तानां तथास्थाने ? , अवधारयतु वा यथा दीपशतप्रभा एकत्रावतिष्ठन्ति, भिन्नाश्च ताः, एकैकापसारणे तत्तत्प्रभाणामेवापगमात् । कथमेतन्निर्णय ? इति चेद् , विविधवर्णकदीपालयनिवेशेन निर्णेयम् ! न च मातृमोदकवद् यथा तथा वचनगौरवमात्रेण ग्राह्यम् । अनेन चैतदपि प्रत्युक्तमेवावसेयम्-यत् पञ्चचत्वारिंशलक्षयोजनमिते सिद्धिक्षेत्रे कश्रममन्ता अवस्थिताः सिद्धाः परस्परं भिन्ना विविधावगाहनाभूत ? इति, समानयोगक्षेमत्वात् । अवगाहनाश्च तेषां न शरीरविहिताः, किन्तु स्वप्रदेशावगाहरूपैवेति । तथा चोच्यतेऽपि-' आऽऽकाशादेकद्रव्याणि' [तत्त्वा०] इति । न चास्ति तेषां गमनादिका क्रिया, अमूर्त्तत्वात् , जीवानां तु मूर्तिमत्त्वात् कथञ्चित् संसारिणां न विरोधः । मुक्तानां तु नास्त्येव गमनादि । 'अलोकप्रविष्टस्य सततोर्ध्वगमन मिति तु दुर्जनप्रलाप इति निदर्शितमेव । यापि For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy