________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१३६
लोकविशिका प्रतिपत्तव्यम् , अन्यथैकस्यैतावन्मानस्य तैजसस्य कामगस्य वाsभावात् । न च कस्याप्यवगाहना विद्यते एतावती । न च विना केवलिनमन्यजीव एतावन्तं लोकमात्रमाकाशमभिव्याप्नोति । ___ तथा प्रदेशसङ्ख्याविहितोऽपि भेदः । अत्र प्रदेशत्वं न पारिभाषिकं ग्राह्यं किन्तु 'प्रवृद्धो देशः प्रदेश' इति । तत्र औदारिकयोग्योऽनन्ताणुकोऽपि स्कन्धो यदि परैरसङ्ख्यैरनन्ताणुकस्कन्धलक्षणः प्रदेशैर्वृद्धो भवति, तदा वैक्रिययोग्यः । सोऽपि पूर्ववदसङ्ख्यैरेवानन्ताणुस्कन्धलक्षणैः प्रदेशैर्वर्धते, तदा आहारकयोग्यः । एवमग्रेऽपि । परं परयोर्द्वयोरनन्तगुणप्रदेशवृद्धतेति वाच्यम् । प्रदेशाश्वात्रापि पूर्वपरिभाषिता एवेति ।
केचित्त्वाहुः-पारिभाषिकपरित्यागे मानाभावः, अर्थासङ्गतिश्च नैवं व्याख्यायते यदि स्यात् कदापि यथा-अङ्गलमात्रक्षेत्रावगाढे औदारिके ये प्रदेशाः ते असङ्ख्येयगुणा वैक्रिये, आहारके ततोऽप्यसङ्ख्यगुणिताः। तैजसे त्वनन्तगुणाः ततः, कार्मणे तु ततोऽप्यनन्तगुणिताः। अपेक्ष्यैवैतत्प्रदेशार्थतां शरीराणां सर्वत्राल्पबहुत्वविचार आहतो दृश्यते आर्षे इति । भाष्यमपि चैवमेव, यदि निभाल्यते सम्यक । न च वाच्यं अवगाहनाविषयमेतदिति । अवगाहना हि शरीरस्य चिन्तयिष्यन्ति खयम् ।
अवगाहनाजनितश्च भेद एषां-यथा औदारिकं यावत्सु असङ्ख्ये. यभागेष्ववगाढं लोकस्य, ततो बहुष्वसङ्ख्येयेषु भागेषु वैक्रियमब. गाढम् , पूर्वस्मादस्य किञ्चिन्न्यूनशतगुणत्वात् , आहारकं तु रत्निमानत्वात् स्तोकावगाढमौदारिकावगाहादपि, तैजसकार्मणे तु पूर्वोक्त
For Private And Personal Use Only