________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
लोकविंशिका
परिणामे च न तेषां सूक्ष्मत्वमिति । न स्पर्शादियदस्य स्वाभाविकत्वं किन्तु पारिणामिकत्वमेव । यद्वा-नपत्र सूक्ष्ममात्रता विवक्षिता किन्तु सूक्ष्मपरिणतिः, यया स्कन्धीभावमापनाः। आपना अपि स्कन्धा नावगमं स्वस्योत्पादयेयुः, न चावगाई निरन्ध्युरिति । स्थौल्यमपि च यावत्तथास्कन्धपरिणति अवतिष्ठते, विनश्यति च ततः परम् ।
न च वाच्यं ' नासतो जायते भावो नाभावो विद्यते सत' इति नियमात् कथमसतोरेव सौक्ष्य-स्थौल्ययोरुत्पादो विनाशो बा, येन स्यात् पारिणामिकत्वमनयोः , अन्यथा तु तयोः स्वाभाविकत्वस्वीकारावश्यकान् इति । यतो नास्त्येवासत उत्पादः सतो नाशश्च । अत एव न सर्वथा अणुषु स्थौल्यासत्त्वं, स्कन्धेषु च सौम्यासत्त्वं वोपेयते, तत्तद्र्व्याणामेव तथा तथापरिणामात् । न च पर्याया द्रव्यतः पृथग्भूताः । यतः सर्वथाऽसन्त उत्पोरस्ते विनश्येयुर्वा । येषामेव सौम्यं तेषामेवेतरत् , येषामेव च स्थौल्यं तेषामेवेतरभावश्च । न चैवमस्यभ्युपगमो-यत् परावर्तनमेव न, तथाहि कार्यमात्रापलापप्रसङ्गश्च न विनिवारयितुं शक्येत ।
तथा भेदो नाम परिणामस्तन भेदो विभागः । स चानेकधा भिद्यमानोऽपि स्थूलभेदेन पञ्चधा कीर्त्यते । ते च खण्ड-प्रतर-चौर्णिको-करिका-नुतटिकाल्याः। तत्र तत्र तादृशो विभागो जायते याहशस्य पुनर्विभागादिः स्यात् , स्याच्च यत्र स्वतन्त्रवियुक्तता अनायतता च यथा लोहादीनाम् । अत एव च खण्ड्यते इति व्यपदेशः । तथा च स्थूलो, नायत्तो विभागः खण्ड इति । तथा प्रतरवदायतो भेदः प्रतर इत्याम्नायते । यथा अभ्रपटलादीनाम् । प्रतरभेदाद् हि पत्रवदायतान्येव भवन्ति खण्डानि, काष्ठादेरपि यदि फलकादिविधा
For Private And Personal Use Only