SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra ११४ www.kobatirth.org ( लोकfaशिका पराघातश्च विषमश्रेणिस्थशब्दपुद्गलानां पराघातस्तथा परिणतैर्यतो भवेत् पश्चात्तेऽपि तथा । भावे च 'भावे तिहा सुए दवे चरणे 'ति वचनात श्रुतद्रव्यचारित्रविषया । तत्रापि द्रव्ये ' दवे सच्चेयर मिस्सामीसया भासे 'ति वचनात् चतुर्धा द्रव्यभावभाषा । न च वाच्यं कथं भाव - भेदविवरणे द्रव्यभाषाया उपन्यास इति । तत्र द्रव्यपदार्थतया भाषाया द्रव्यनिक्षेपेण अन्वाख्यानम् अत्र तु भाषापरिणतानां तत्पुद्गलानां विचारः । तथा च भाषापरिणामापेक्ष भावत्वम् । आराधनाविराधनापेक्षालक्षणभावापेक्षया तद्व्यापेक्षया च द्रव्यत्वमिति परस्परविरुद्धता न । कथं तर्हि सत्यत्वादिव्यपदेश इति चेद्, वाच्यवस्त्वपेक्षया । आराधना- विराधने तु 'सहिट्ठी उवउत्तो भाइ सच्च' मिति नियमानुरोधेन ज्ञातव्ये । सल्या तावद् दशधा भाषा--- Acharya Shri Kailassagarsuri Gyanmandir ? जणवय-सम्मय-ठवणा-णामे वे पच्च सच्चे य । वबहारभाव - जोए इसमे ओवम्मसच्चे य ॥१॥ इति तम्या भिद्यमानत्वाद्दशधा । तत्र दवरकादेर्मङ्गलमिति, कुशेशयस्य पङ्कजमिति, जिनप्रतिमायाः जिन इति, अधनवतोऽपि धनावह इति, प्रतिसेविनोऽपि प्रकटं यतिवेषवतो यतिरिति वदरामलकूष्माण्डीनामणुर्महान्वेति दद्यमानेषु तृणेषु दह्यते गिरिरिति पञ्चवर्णेष्वपि बलाकाशरीरपुद्गलेषु सत्सु श्रेता बलाकेति, अपरावर्तितेऽपि देवदत्तादौ छत्रयोगान् छत्रीति, क्षुल्लकस्य सरोवरमात्रस्यापि जलाशयम्य जलधिरिवेयाद्योपमा च क्रमेण जनपदादिसत्यतयोदाहार्याणि । यत उच्यते 1 6 मंगल पंकयपडिमा धनावहो साहु मुहुम बज्झइ य । सेयबलाया छत्ती जलहि उनमा अणेगविहा ॥१॥ रूपकाद्यपि चोपमामूलत्वात्तदन्तर्गतमेवावसेयम् । आहरणाया अप्युपमाभूता एव, पूर्वोक्तहेत्व For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy