SearchBrowseAboutContactDonate
Page Preview
Page 131
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०८ Acharya Shri Kailassagarsuri Gyanmandir लोकविंशिका रुवाच मघवन् यच्छान्तहृदयः प्रात्राजीः किमिच्छन् पुनरागम इति सहोवाच नाहं खल्वयं भगव एवं सम्प्रत्यात्मानं जानात्ययमहमस्मीति नो एवेमानि भूतानि विनाशमेवापीतो भवति नाहमत्र भोग्यं पश्यामीति ॥ २ ॥ एवमेवैष मघवन्निति होवाचैतं त्वेव ते भूयोनुव्याख्यास्यामि नो एवान्यत्रेतस्माद्वसापराणि पञ्च वर्षाणीति सहापराणि पञ्ज वर्षाण्युवास तान्येकशतं सम्पेदुरे तत्तद्यदाहुरेकशतं ह वै वर्षाणि मघवान् प्रजापती ब्रह्मचर्यमुवास तस्मै होवाच || २ || इति एकादश: खण्ड: । मघवन् मर्त्यं वा इदं शरीरमात्तं मृत्युना तदमृतस्याऽशरीरम्यात्मनोऽधिष्ठानमात्तो वै सशरीरः प्रियाप्रियाभ्यां न वै सशरीरस्य सतः प्रियाप्रिययोर पहतिरस्त्यशरीरं वा वसन्तं न प्रियाप्रिये स्पृशतः ||१|| अशरीरो वायुरभ्रं विद्युत्स्तनयित्नुरशरीराण्येतानि तद्यथैतान्यमुष्मादाकाशात् समुत्थाय परं ज्योतिरुपसम्पद्य स्वेन स्वेन रूपे - णाभिनिष्पद्यन्ते ||२|| एवमेवैष सम्प्रसादोऽस्मान्नशरीरात् समुत्थाय परं ज्योतिरूपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन् क्रीडन् रममाणः स्त्रीभिर्वा यानैर्वा ज्ञातिभिर्वा नोपजनं स्मरन्निदं शरीरं स यथा प्रयोग्य आचरणे युक्त एवमेवामस्मञ्छरीरे प्राणो युक्तः ||३|| अथ यत्रैतदाकाशमनु विषण्णं चक्षुः स चाक्षुषः पुरुषो दर्शनाय चक्षुरथ यो वेदे जिघ्राणीति स आत्मा गन्धाय ब्राणमथ यो वेदेदमभिव्याहराणीति स आत्माभिव्याहाराय बागथ यो वेदेदं श्रृणवानीति स आत्मा श्रवणाय श्रोत्रम् ||४|| अथ यो वेदेदं मन्वानीति स आत्मा मनोऽस्य देवं चक्षुः स वा एष एतेन देवेन चक्षुषा मनसैतान् कामान् पश्यन रमते ||५|| ययाते ब्रह्मलोके तं वा एतं देवा आत्मानमुपासते तस्मा For Private And Personal Use Only
SR No.020457
Book TitleLokvinshika Part 02
Original Sutra AuthorN/A
AuthorHaribhadrasuri, Manikyasagarsuri
PublisherAgamoddharak Granthmala
Publication Year1965
Total Pages256
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy