SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६४ अद्वैतमञ्जरी । नपक्षेऽपि दोषजन्यधीविषयत्वेन शुक्तिरूप्यादेर्ज्ञाननिवय॑त्वमनुमाय व्याप्तिग्रहसम्भवः । ननु, पूर्व इवोत्तरोऽप्यवधिदृश्याब्धेर्नास्त्येव । तदुक्तं प्रलयस्याप्यस्वीकर्तृभिर्मीमांसकैः--'न कदाचिदनीदृशं जगदिति । आस्तां हि तत्वज्ञानमात्यन्तिकदुःखनाशस्य नित्यसुखसाक्षात्कारस्य वा मोक्षस्य हेतुः । शोकं दुःखम् । आनन्दं आनन्दः । ब्रह्मणः बृहतः जीवस्येति यावत् । रूपं नित्यधर्मः । मोक्षे मोक्षहेतुज्ञाने अनुप्रतिष्ठितमित्यर्थिकायाः 'तरति शोकमात्मवित् आनन्दं ब्रह्मणो रूपं तच्च मोक्षे प्रतिष्ठित मित्यादिश्रुतेः। उक्तनिवृत्तिप्रयोजकं तु कुतस्तत्राह-मुद्रेत्यादि । पातानन्तरं पातोत्पत्तिरूपव्यवधायकशून्यकाले । पातोत्पत्तिक्षण इति यावत् । घटो नास्तीति । स्वाश्रयकालपूर्वत्वसम्बन्धेन घटो नास्तीत्यर्थः । एवं ज्ञानानन्तरमित्यादि दृष्टान्तेत्यर्थः । रूप्यं चेति चकारात्तत्कारणाज्ञानसम्बन्धग्रहणम् । ज्ञानसाध्यनिवृत्तिपक्षे तु अनन्तरपदयोरुत्पत्त्यव्यवहितोत्तरक्षणोऽर्थः । नास्तीति शब्दस्याद्यस्य मुद्गरपातप्रयुक्ता द्वितीयस्य ज्ञानप्रयुक्ता निवृत्तिरस्तीत्यर्थः । नमो निवृत्यर्थत्वादिति भावः । अनन्तरमिति च सावधारणम् । तथा चास्तीत्यस्य वर्तमानत्वार्थकत्वेनेदानीमेव मुद्रपातप्रयुक्ता निवृत्तिर्न तु क्षणान्तर इति धीवत् एतत्क्षण एव ज्ञानप्रयुक्ता सर्वदृश्यनिवृत्तिर्न तु क्षणान्तर इति सार्वलौकिकधीबलादुक्तनिवृत्तिप्रयोजकत्वं ज्ञानस्य युक्तम् । तदनुसृत्य पूर्वोक्तव्याप्तीनां कल्पनमपीति भावः । ननूक्तव्याप्तीनां ग्राहकः कस्तर्क इति चेत् 'दण्डपातोत्पत्तिक्षणो यो यस्स घटसमवायितत्तद्देशावच्छेदेन घटवत्कालपूर्वो ने ति व्याप्तौ ‘स यदि तथा न स्यात् तदोक्तपूर्वत्वेन प्रमीयते'ति तर्क इव 'तत्त्वप्रमा या या सा स्वसमानविषयकाज्ञानप्रयुक्तवत्कालपूर्वाने' त्यादिव्याप्तौं 'सा यदि तथा न स्यात् तदोतपूर्वत्वेन प्रतीयेते'त्यादितर्को ग्राहकः । यदि चैवं न स्वीक्रियत तदा दुःखनाशस्य तत्वज्ञानसाध्यत्वेऽपि तदधिकरणक्षणे दुःखं कुतो नोपलभ्यते। कुतो वा नानुवर्तते । नाशस्य प्रतियोग्यसमानकालीनत्वनियमादिति चेन्न । उक्तनियम एव हेतोः पृष्टत्वात् । अथ नाशननकदण्डपातादिसमूहाश्रयक्षणस्य घटाद्याश्रयकालपूर्वत्वाभावनियमादिति चेत्तर्हि दण्डपातादेरुक्तविशेषणं विनाप्युक्तनियमस्य त्वया स्वीकारात् । प्राभाकरादिमते नाशस्य तत्तदधिकरणरूपस्य दण्डपाताद्यजन्यत्वेन तादृशनियमस्यैव स्वीकाराच्च । तत्वज्ञानस्थलेऽपि तत्वज्ञानादिसमूहाश्रयक्षणस्य दुःखाधिकरणकालपूर्वत्वाभावव्याप्तिः प्राभाकरादिभिस्त्वयाऽ पि स्वीक्रियते । तथा च तद्वदेव मन्मते प्रमायामुक्तपूर्वत्वाभावनियमे न कोऽपि दोषः । यदि चोक्तविशेषणविशिष्टदण्डपातादरेव तथा नियमः । प्राभाकरादिमते For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy