SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी । त्तिज्ञानादेः घटादौ विषयतादिसम्बन्धस्यापलापापत्तेः । तथा च सर्वदा व्यवहारकाले कार्यस्य तादात्म्यापन्नं किञ्चित्कार्यरूपमस्ति । तत्त्वदर्शनं विना तदुच्छेदासम्भवादिति सत्कार्यवादः सांख्यानामिवास्माकमपि । परं त्वस्माकं तद्रूपं मिथ्येति विशेषः । ननु, ज्ञाननन्यनाशप्रतियोगित्वमेव ज्ञाननिवर्त्यत्वमस्तु । मुद्गरादिना तु घटादेर्नाशो न जन्यते । मुद्गरादितः पूर्वसिद्धस्य घटाद्युपादानस्य कपालादेरेव तत्तत्कालावच्छिन्नस्य घटादिनाशत्वात् । न चैवं तत्त्वज्ञानेनापि कपालादिरूपस्य नाशस्याजननात् घटादावव्याप्तिरिति वाच्यम् । श्रुतिप्रामाण्यादज्ञानकालीनकपालादिरूपाणां घटादिनाशानां ज्ञानाजन्यत्वेऽपि ज्ञानोत्तरकालोत्पन्नस्वेतरसर्वप्रतियोगिकनाशस्य ज्ञानजन्यत्वे सिद्धे कपालादिनाशस्यापि घटादिनाशत्वेन घटादिनाशस्य ज्ञाननन्यत्वानपायात्।तत्राह-तथाचेति । ज्ञानप्रयुक्तेत्यादिलक्षणे कृते चेत्यर्थः । ब्रह्मेत्यादि । एक्कारः स इत्यस्योत्तरं योजनीयः। तथा च स एव उक्तसम्बन्धेनाज्ञानप्रयुक्ततत्संस्कारान्यतराभावरूपोक्तावस्थितिसामान्याभाव एव । ज्ञानप्रयुक्तः ज्ञानाधीनः । न तु घटादिनाशो ज्ञानकालीनकपालादिनाशरूपः । तस्य ज्ञानजन्यत्वे पश्चान्नाशकाभावेन स्वनाश्यत्वस्वीकारे ज्ञानानाश्यत्वेन च सत्यत्वापत्तेः । नचोक्तावस्थितिसामान्याभावस्येव कपालादिप्रपञ्चनाशस्यापि ज्ञानोत्पत्तिक्षणे द्वितीयक्षणे वा ज्ञानस्याक्षणिकत्वपक्षे उत्पन्नत्वेन प्रपञ्चसमानकालीनत्वं स्वीकृत्य ज्ञानप्रयुक्तत्वमुच्यतामिति वाच्यम् । नाशस्य प्रतियोगिक्षणावृत्तित्वनियमात् । प्रतियोगिक्षणवृत्तिनाशे मानाभावात् । चरमक्षणस्य स्वेतरसकलदृश्यनाशत्वसम्भवेऽपि स्वनाशत्वासम्भवेन तस्य ज्ञानजन्यनाशप्रतियोगित्वोपपादनासम्भवादुक्तावस्थित्यभावविषयकतया ज्ञानात् दृश्यं सर्वंनष्ट' मिति प्रत्ययोपपत्तेः तत्त्वज्ञानजन्यनाशे मानाभावाच्च । तस्मात् स एव ज्ञानाधीनः । ज्ञानादुक्ताभाव इति प्रत्ययेन ज्ञानकालीनेऽप्युक्ताभावे ज्ञानाधीनत्वसम्भवात् । ज्ञाननाशकालीनस्य उक्ताभावस्य स्वीकारे तस्य नाशकाभावेन सत्यत्वापत्तेः । न तु कपालादिनाशो मानाभावादिति या अतीतवटादौ ज्ञाननाश्यत्वलक्षणस्याव्याप्तिः सा ज्ञानप्रयुक्तेत्यादिकरणान्नेत्यर्थः । ननूक्तावस्थित्यभावोऽपि न ब्रह्मज्ञानप्रयुक्तः प्रलयादौ ब्रह्मज्ञानं विनापि तत्सत्त्वेन तस्य ब्रह्मज्ञानानधीनत्वादित्यत उक्तम्-मुद्गरपातेनेति । उपलक्षणमिदम् । ब्रह्मज्ञानान्येनादृष्टादिनेत्यर्थः। प्रयुक्तत्वं तृतीयार्थः । तस्य च विरहपदार्थद्वयेऽन्वयः । तथा च घटादिस्वरूपप्रतियोगिकविरहस्य ब्रह्मज्ञानान्यप्रयुक्तत्वेऽपि घटादिसंस्कारप्रतियोगिकस्य उक्तावस्थितिसामान्याभावस्य ब्रह्मज्ञानान्याप्रयुक्तत्वेन ब्रह्मज्ञानप्रयुक्तत्वं तस्याक्षतमिति भावः । यदि च चरमक्षणे स्वेतरस्येव स्वस्यापि ध्वंसत्वं स्वीक्रियते, एकत्रापि तत्र रूपभेदेन ध्वंसत्वं प्रति प्रतियोगित्वानु For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy