SearchBrowseAboutContactDonate
Page Preview
Page 56
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी । तियोगिव्याधिकरणात्यन्तामावस्याऽप्रतियोगिप्रातीतिकधूमसामानाधिकरण्यस्य वह्नौ सत्त्वादिति वाच्यम् । व्यावहारिकमात्रवृत्तेरपि संयोगत्वादेः स्वीकारेण तदाश्रयस्यैव संयोगादेस्सामानाधिकरण्यघटकाधिकरणादौ साध्यादिसंसर्गतया निवेशेन व्यावहारिकस्य प्रातीतिकसाध्यसंसर्गत्वाभावेन च प्रातीतिकधूममादाय व्याप्तिघटनाया असम्भवात् । एवं च व्यावहारिकप्रातीतिकोभयवृत्तिसंयोगत्वादिकं व्यावहारिकमात्रवृत्ति च तत् स्वीक्रियते । न तु प्रातीतिकमात्रवृत्ति । अत एव बाष्पे धूमत्वभ्रमेण प्रातीतिकधूमत्वाश्रये बाष्पे वहिव्यापकतां गृहीत्वा वह्निव्यापकधूमसामानाधिकरण्यं यत्र गृह्यते वह्नौ, तत्र न धूमव्याप्यतापत्तिः । बाष्पत्वविशिष्टप्रतियोगिकस्य व्यावहारिकमात्रवृत्तिसंयोगत्वाश्रयस्य प्रातीतिकधूमत्वोपलक्षितप्रतियोगिकत्वेऽप्युक्तधूमत्वविशिष्ट प्रतियोगिकत्वाभावात् । किं च विशिष्टसामानाधिकरण्यस्य व्यावहारिकमात्रवृत्तिविशेषणतात्वाश्रयसंबन्धेनाश्रयत्वमेव व्याप्तिरिति स्वीकारात् प्रातीतिकधूमत्वादिघटितस्य न व्याप्तित्वम् । प्रातीतिकघटितधर्मावच्छिन्नस्य प्रातीतिकत्वेन व्यावहारिकस्य तत्प्रतियोगिकत्वाभावादि"ति नव्यमतमालंब्यते, तदा प्रातीतिके नियमतो व्यावहारिकतादात्म्यारोपस्तन्निषेधश्चोपेक्षणीय एव । कादाचित्को तावालब्य प्राचीनोक्तिर्नेया । न हि कदाचिदपि तौ न स्त इति वक्तुं शक्यम् । यत्तु प्रातीतिके तदधिष्ठानस्यैव तादात्म्यारोपाव्यावहारिकरजतादेः प्रातीतिके तादात्म्यारोपोक्तिः न युक्तेति । तन्न । प्रातीतिके तदुत्पत्तिकालोत्तरमुत्पन्नेन दूरत्वादिदोषेण सनिहितस्यानधिष्ठानस्याऽपि व्यावहारिकस्य तादात्म्यारोपदर्शनात् । व्यावहारिकरजतस्येन्द्रियासनिकृष्टत्वेऽपि तदंशे स्मृतिरूपस्य भ्रमस्य सम्भवात् । ननु 'नेदं रजतमिति बाधोऽपि रजतस्य मायामयत्वं सूचयतीति पञ्चपादि" कावाक्ये प्रतिपन्नोपाधावभावप्रतियोगित्वमेव मिथ्यात्वम् । तच बाधकज्ञाने रजतं प्रतिपन्नोपाधावभावप्रतियोगितया अवभासत इति प्रत्यक्षमिति विवरणवाक्यं व्याख्यानम् । तथा च तादृशबाधस्यात्यन्ताभावविषयकत्वेनैव विवरणे व्याख्यानात् कथं प्रातीतिकव्यावहारिकभेदविषयकत्वं भवद्भिरुच्यते । न च समानविभक्तिकनामद्वययुक्तना भेदस्यैव बोधनादुक्तबाधज्ञानस्य भेदविषयकत्वमेव युक्तमिति वाच्यम् । प्रत्यक्षज्ञाने शब्दस्वारस्येनार्थकथनस्यायुक्तत्वात् । अथ विवरणकारैरेव पश्चागुक्तबाधज्ञानस्य भेदविषयकत्वमुक्तम् । तथा हि-प्रतिपन्नोपाधौ स्वरूपेण रजतस्यात्यन्ताभावस्वीकारेऽपि कालभेदेनैव रजततदभावयोर्व्यवस्था स्यात्। अन्यथा 'रजतस्य शून्यतारूपमलीकत्वं स्या' दित्याशक्य लौकिकप For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy