SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्र०दे द्वितीयमिथ्यात्वम् ] लघुचन्द्रिका । योजकस्य शुक्तिरूप्यादेरपि प्रवृत्त्यादिजनकधीविषयत्वात् तादृशजनकतावच्छेदकत्वेनोक्तप्रयोजकता । अविद्योपादानकस्य अविद्यापरिणामत्वेन 'अजामेकामित्यादि' श्रुत्या बोधितस्य । तत्वं अधिष्ठानम् । निरूप्यत्वेन घटितत्वेन । अन्योन्याश्रयादिति । 'मिथ्यात्वज्ञानं विना न मिथ्यात्वघटितस्य पारमार्थिकत्वस्य ज्ञानं पारमार्थिकलज्ञानं विना पारमार्थिकत्ववटितमिथ्यात्वस्य न ज्ञान मित्यन्योन्याश्रयादित्यर्थः । ननु, पारमार्थिकत्वं प्रकृते न बाध्यत्वाभावः । किंतु ज्ञानानिवर्त्यमात्रविशेष्यकधीः । तथा च विशेष्यतासम्बन्धेन तदवच्छिन्नस्य प्रतियोगित्वस्य निवेशे अन्योन्याश्रयानवकाशः । पारमार्थिकत्वस्य तद्धटितमिथ्यात्वाघटितत्वात् । न चोक्तधियस्तव्यक्तित्वेन निवेशासम्भवः । परार्थानुमाने तदादिसवनामशब्देन साध्यनिर्देशस्यासांप्रदायिकत्वात् । तद्व्यक्तित्वविशिष्टज्ञानापेक्षया लबोर्घटत्वादेरेव विशेष्यतासम्बन्धेन प्रपञ्चनिष्ठप्रतियोगितायामवच्छेदकत्वात् । नापितादृशधीत्वेन । तस्य तद्व्यक्तित्वाद्यपेक्षया गुरुशरीरत्वेन तेन रूपेण धियः प्रतियोगितावच्छेदकत्वस्य निवेशयितुमशक्यत्वादिति वाच्यम् । तादृशधीत्वोपलक्षितज्ञाननिष्ठावच्छेदकताया एव निवेशेन तादृशधीत्वस्य गुरुत्वेऽपि क्षतिविरहात् । न चैवं प्रपञ्चस्य तादृशपारमार्थिकत्ववत्त्वेऽपि पूर्वक्षणवृत्तित्वविशिष्टतादृशपारमार्थिकत्वरूपतत्तद्धीव्यक्तिरूपेण तत्तद्धटादेस्तदधिकरणे अभावसत्त्वेन सिद्धसाधनम् । 'एतक्षणे पूर्वक्षणवृत्तित्वविशिष्टतद्ज्ञानवन्नास्ती' ति प्रत्ययादिति वाच्यम् । अनवच्छिन्नोक्तावच्छेदकतायाः निवेशात् । स्वरूपतस्तत्तद्वीव्यक्तेरवच्छेदकत्वसम्भवात् । न च प्रपञ्चस्य मिथ्यात्वसंशयकाले प्रलतानुमानस्यावतारः । तथा च तत्काले तादृशधियः प्रपञ्चविशेष्यकत्वस्य सन्दिग्धतया प्रपञ्चवति तादृशधीरूपेण प्रपञ्चस्य अभावो ज्ञातुमशक्य इति वाच्यम् । उक्तधीरूपेण प्रपञ्चवत्त्वं यत्र निर्णीतं तत्रैव तद्रूपेण प्रपञ्चाभावस्य ज्ञातुमशक्यत्वेन प्रपञ्चे तादृशधीसंशयप्रयुक्ते तादृशधीरूपेण प्रपश्वस्य प्रमाणि संशये सत्यपि तद्रूपेण तस्य तत्राभावज्ञाने बाधकाभावात् । ग्राह्यसंशयस्य प्रतिबन्धकत्वपक्षेऽपि प्रत्यक्षं प्रत्येव तत्स्वीकारादनुमित्यात्मकोक्ताभावज्ञाने तदस्वीकारादत आह-पारमार्थिकत्वस्यापीत्यादि । स्वरूपेण स्वनिष्ठधर्मेण । अनवस्थेति । 'ज्ञानं सर्वं स्वविषयकमिति वादिनो मते ज्ञानानिवर्त्यमात्रविशेष्यकधीरप्रसिद्धा । ज्ञानत्वविशिष्टतया स्वग्राहकत्वेन ज्ञानमात्रस्य स्वविशेष्यकत्वात् । तथा च तादृशवादिनं प्रति स्वभिन्नं यत् ज्ञाननिवर्त्य तदविशेष्यकधीरूपपारमार्थिकत्वं निवेश्यम् । तस्य च विशेष्यतासम्बन्धेन स्वनिष्ठत्वात् तादृशधीरूपेण स्वस्वेतरसकल दृश्यनिषेधासम्भवात् तादृशधीतरसकलदृश्यानामेव तादृशधीरूपेण निषेधप्रा. For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy