SearchBrowseAboutContactDonate
Page Preview
Page 25
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रथमपरिच्छेदः] लघुचन्द्रिका।. वृत्तिं विनापि सुखादेश्चिदूपज्ञाने विषयत्वानुभवात् । अत एव ज्ञानं चिदेव । न तु वृत्तिः । तथा चैकवृक्षादिनिष्ठसंयोगतदभावयोः अग्रमूलाधवच्छेदेनैवैकस्यां सर्वढश्यतादात्म्यापन्नाचेव्यक्तौ शुक्त्यादिघटादितादात्म्यावच्छेदेन रजतादितादात्म्यतदभावयोरुपपादनार्थमवच्छेदकस्वीकारेण तादात्म्यरूपविषयत्वे मूलादिनिष्ठसंयोगाद्यवच्छेदकत्वजातीयस्य विषयत्वावच्छेदकत्वस्य सम्भवेन गौरवापादकस्य विलक्षणावच्छेदकत्वस्य वक्तुमशक्यत्वात् । मूलादिनिष्ठावच्छेकत्ववदेव विषयत्वनिष्ठावच्छेदकत्वे अनुभवादिव्यवस्था । अथ संयोगादेवच्छेदकतासंबन्धेनोत्पत्तौ तादात्म्यसम्बन्धेन मूलादेहेतुत्वात् संयोगादेरेव मूलाधवच्छिन्नत्वम् । न विपरीतम् । मानाभावात् । विषयत्वयोस्त्वेकमेवापरतावच्छेदकामित्यत नियामकाभाव इति चेन्न । व्यावहारिकस्येदमादेस्स्वावच्छिन्नसंयोगादौ यत् कारणत्वं क्लप्तं तत् अवच्छेदकतासम्बन्धेन वावच्छिन्नसामान्यस्योत्पत्तौ । तथा च रजतादितत्तादात्म्ययोरपि तत्तदिदमर्थव्यक्तिभिरवच्छिन्नत्वात्तयोरुक्तसम्बन्धेनोत्पत्तौ तब्यक्तेस्तादात्म्येन हेतुत्वम् । अन्त्यावयविनामपि घटादीनां तन्मध्यस्थजलादिवायुसंयोगाद्यवच्छेदकत्वानुभवात्तेष्वपि तथैव भ्रमविषयावच्छेदकत्वसंभवः । गुणकर्मादीनां तु तादशहेतुत्वस्याक्लप्तत्वेऽपि तद्विशेष्यकभ्रमस्थले विशेषणसंसर्गयोविशेष्यनिटावच्छेदकतासंबन्धेनोत्पत्तौ विशेष्यनिष्ठेन तत्तत्सम्बन्धेन दोषाणां हेतुत्वं कल्प्यते। एवमवच्छेदकतासम्बन्धेन तादात्म्यस्योत्पत्तौ स्वपरिणामाव्यवहितपूर्वत्वविशिष्टमज्ञानं तादात्म्यभिन्नस्वपरिणामनिष्ठविषयतासम्बन्धेन हेतुः । स्वमज्ञानं तस्य परिणामो रजतादिकं तदाकारा वृत्तिश्च तदव्यवहितपूर्वत्वविशिष्टमज्ञानं रजताद्युत्पत्तेरव्यवहितपूर्वक्षण एवास्तीति रजताद्युत्पत्तिक्षण एवेदमादिविशेष्यतादात्म्यं रजताद्यवच्छेदेनेदमाद्याकारमनोवृत्तितादात्म्यं रजताकाराविद्याप्रत्यवच्छेदेनोत्पद्यते । स्वमज्ञानं तत्परिणामो रजतादिकं तदाकारा वृत्तिश्च तन्निष्ठा विषयता ईश्वरज्ञानादेरस्तीति सा संम्बन्धः । स्वपरिणामे भाविनि तादात्म्यादिसम्बन्धेन पूर्वमज्ञानस्यासत्त्वात् स्वपरिणामनिष्ठविषयतेत्युक्तम् । विषयतासम्बन्धस्य च भाविभूतविषये ज्ञानादेस्सत्त्वादुक्तविषयतासम्बन्धेन भाविन्यप्यज्ञानसत्त्वम् । अत एव ज्ञायमानघटत्वरूपं सामान्यं घटवृत्त्यलौकिकमुख्यविशेष्यतासम्बन्धेन प्रत्यक्ष प्रति स्वसमवायिनिष्ठविषयतासम्बन्धेन माविभूतनिष्ठेन हेतुरिति तार्किका वदन्ति । रजतादितत्संसर्गयोरिदमाद्यवच्छिन्नत्वात्तदीयचित्तादाम्यरूपं विषयत्वमपि तथा । इदमादिविषयत्वावच्छिन्नं च संभवति । इदमादिविषयत्वस्य तु रजतादिप्रतियोगिकतादृशसंसर्गविषयत्वावच्छिन्नत्वे मानाभावात् । 'र. For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy