SearchBrowseAboutContactDonate
Page Preview
Page 228
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ अद्वैतमञ्जरी। पकं वाक्यमप्यौत्पत्तिकं निर्दोषत्वेनानादि । किञ्च तादृश उपदेशो व्यतिरेको बाधकज्ञानवत्त्वरूपेण प्रमाणवैध\ण शून्यः । किश्चानुपलब्धे अज्ञातेऽर्थे सप्रयोजने धर्म उपदेशरूपत्वात्तद्वाक्यं प्रमाणमेवेति तदर्थो वार्त्तिकादावुक्तः । तदेतत् सर्वमभिप्रेत्याह-षड्वितात्पर्यलिंगोपेतेति । अर्थनिष्ठमिति । प्रयोजनवद्धीविषयत्वविशिष्टरूपेणार्थस्यापि प्रयोजनवत्त्वं बोध्यम् । अतिप्रसङ्गेति । अद्वितीये इव सत्यकामत्वादिविशिष्टेऽपि ब्रह्मण्यबाधितत्वादित्रयं सम्भवति । श्रुतिबोधितत्वेनाबाधितत्वस्य उपासनाविषयत्वेन प्रयोजनवत्त्वस्य च सम्भवात् । अतस्तत्रापि तात्पर्ये प्रसक्ते अभ्यासादेरद्वितीये विद्यमानत्वेन तत्रैव तात्पर्यम् । अन्यथा वैयर्थ्यापत्तेरित्येवंरीत्या तस्य सगुणतात्पर्यातिप्रसङ्गवारकत्वमिति भावः । सर्वासामिति । च्छान्दोग्ये 'एकमेवाद्वितीय'मित्युपक्रमः । ऐतदात्म्यमिदं स'मित्युपसंहारः। ऐतदात्म्यमित्यानवधावृत्तिरभ्यासः । 'येनाश्रुतं श्रुत'मित्याद्यर्थवादः । एवं श्रुत्यन्तरेऽपि द्रष्टव्यम् । अन्यथानुपपत्तीति । तात्पर्यान्यथानुपपत्तीत्यर्थः । ननु, तात्पर्यस्य प्रमानुकूलशक्तिरूपत्वेऽपि तदन्यथानुपपत्त्या नाद्वैतस्य त्रिकालाबाध्यत्वं सिध्यति । प्रमात्वस्य व्यवहारकालाबाध्यत्वघटितत्वसम्भवात् । तथा च व्यावहारिकप्रामाण्येऽप्यद्वैत श्रुतिः कथं प्रत्यक्षादिवाधिका । तत्राह-नहीत्यादि । रूपमुपलाक्षितं व्यावहारिकं व्यवहारकालावच्छिन्नस्याबाध्यत्वस्याश्रयः। व्यवहारकालवृत्तिबाधस्याविषयत्वे सति बाध्यमिति यावत् । साक्षिखरूपस्याद्वैतस्योक्तव्यावहारिकत्वस्यासम्भवः । सर्वदैवाबाध्यत्वादिति भावः । अन्यथा व्याख्यानं प्रकटयति-तथा हीति । सामानाधिकरण्यं समानविभक्तिकमिथस्साकांक्षनामद्वयत्वम् । अध्यासे आधारारोप्ययोस्तादात्म्यबोधकनिष्ठं यदाश्रिताज्ञानस्य यः परिणामस्तयोस्तादात्म्यबोधकनामद्वयनिष्ठमिति यावत् । बाधायां बाध्यमानतादाम्योपलक्षितस्याधिष्ठानस्य बोधकनिष्ठम् । स्थाणुत्वेन पूर्वं ज्ञातः पुमानेवेत्यर्थकत्वात् । विशेषणविशेष्यभावेन उक्ततादात्म्यान्यतादात्म्यबोधकनिष्ठम् । अभेदेन शुद्धव्यक्तिमात्रबोधकनिष्ठम् । अध्यासे वेति । वा शब्दो व्यवस्थितविकल्पे । बाधिते शुक्तिरूप्यादौ बाधायाम् । अबाधिते आकाशादौ त्वध्यासे । अथ वा तत्त्वे साक्षात्कृते बाधायाम् । तत्पूर्वं त्वध्यासे इति भावः । उपहितमेवेति । उपहितविषयकस्य शुद्धविषयकत्वनियमपक्षेऽपि बाधकामावे सत्येवोक्तनियमः । प्रकृते तु शुद्धानन्दस्यावृतत्वमेव बाधकम् । प्रत्यक्षप्राप्तेति।प्रमात्वेन साक्षिसिद्धप्रत्यक्षप्राप्तेत्यर्थः । सृष्टिपूर्वेति । 'नास'दित्यादिश्रुतौ तदानीमिति पदसत्त्वात् सृष्टिपूर्वकाललाभः । षड्विंशतिरित्यादि । 'अश्वस्तूपरो गोमृगस्ते प्राजापत्या' इत्यादिपशुत्रय For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy