________________
Shri Mahavir Jain Aradhana Kendra
२१४
www.kobatirth.org
अद्वैतमञ्जरी ।
Acharya Shri Kailassagarsuri Gyanmandir
श्वपदस्यांशभेदेन विधायकत्वानुवादकत्वयोः स्वीकारात् । हिंसात्वावच्छेदेनानिष्टसाधनत्वसम्बन्धस्तु न पूर्वं प्राप्त इति वैषम्यम् । तदिदमुक्तम्- प्रकारवैलक्षण्याभावादिति । एकशाखेत्यादि । एकवेदस्थनानाशाखागतानां विधिवाक्यानां समानार्थकानां पुरुषभेदं प्रत्येव बोधकत्वम् । 'स्वाध्यायोऽध्येतव्य' इत्यादौ स्वाध्यायशब्दितशाखायाः एकवेदस्थशाखान्तरासाहित्य रूपैकत्वविशिष्टाया एवाध्ययनस्य विहितत्वेनैकवेदस्थशाखाद्वयगतवाक्ययोरेकपुरुषेणाध्ययनस्याविहितत्वात् । तथा च तत्र यथा तादृशवाक्ययोः पुरुषभेदं प्रति बोधकत्वेन नानुवादकत्वमिति शाखान्तराधिकरणे द्वितीयस्थे निर्णीतम् । तथा वादिविप्रतिपत्त्यादिभिरनिर्णीतघटादिसत्ताकं पुरुषं प्रति प्रवृत्ता विश्वसत्त्वश्रुतिर्नानुवादिकेत्यर्थः । अशक्यत्वादिति । 'अनिहिंमस्ये' त्यादावपि स्वभाववादादौ हिमनिवर्तकत्वादावग्न्यादिनिष्ठे विवादात् । अत्रायं पुरोवाद इत्यस्येति । अत्र तद्वेदीयैकशाखाध्ये पुरुषे अयं तद्वेदीयशाखान्तरस्थवाक्यरूपो वादः पुरः पूर्वं अज्ञाततादशायामग्रिहोत्रादेर्ज्ञापक इत्यस्यार्थस्येत्यर्थः । चातुर्मास्यमध्यमपर्वणोरिति । वैश्वदेवं वरुणप्रवासाः साकमेधाः शुनासीरीयं चेति पर्वचतुष्टयस्य प्रयोगचतुष्टयरूपस्य चातुर्मास्याख्यकर्मणः मध्यमपर्वणोरित्यर्थः । चातुर्मास्यप्रकरणे श्रुतम् । 'द्वयोः प्रणयन्ति द्वाभ्यामेति' ऊरू वा एतौ यज्ञस्य यद्वरुणप्रवासाश्च साकमेधावेति । तत्र सधर्मकं यत् सौमिकमग्निप्रणयनं तदेव विधीयते । प्राकृतस्याधर्मकस्यानिप्रणयनस्य विधाने वाक्यस्य वैयर्थ्यात् । तस्य चोदकेनैव प्राप्तिसम्भवात् । अत एव सौमिकप्रणयने उत्तरवेदेस्सत्त्वेन तस्या वैश्वदेवादावपि प्रसको 'न वैश्वदेवे उत्तरवेदिमुपवपन्ति 'न शुनासीरीये' इति तत्पर्युदासरसङ्गच्छते । तेन तयोरुत्तरवेदिभिन्नाः सौमिकप्रणयनधर्माः कार्याः । अथवा अतिदेशप्रवृत्तेः पूर्वं प्राकृतमेवाग्निप्रणयनमत्र विधीयते । तत्प्रयोजनं तूत्तरवेदिरूपगुणस्य मध्यमपर्वणोरेव प्राप्त्येतरपर्वणोरुक्तगुणपरिसङ्ख्या । एतद्वाक्याभावे हि पर्वचतुष्टयेऽपि प्राकृताग्निप्रणयनप्राप्त्या तदुद्देशेनो सरवेदिविधानं पर्वचतुष्टयेऽपि स्यात् । एतद्वाक्यत्वे तु तेनोपदेशेन मध्यमपर्वद्वयीयप्रणयनस्यैव विशिष्योपस्थितत्वात्तत्रैव तदिति प्राप्ते, न सौमिकम् । तस्यानुपस्थितस्य विनियोगासम्भवात् । नापि प्राकृतं तस्याहवनीयोत्पादकत्वेनाहवनीयापादानकत्वासम्भवात् । 'आहवनीयात् द्वावग्नीप्रणयतः अध्वर्युश्च प्रतिप्रस्थाता चे 'ति शाखान्तरवाक्ये च प्राकृतप्रणयनकालोत्तरमाहवनीयापादानकप्रणयनं विधीयते । तस्मादप्राकृतमसौमिकं प्रणयनान्तरं विधी - यते । तच मध्यमपर्वणोरेव । द्वाभ्यामित्याद्यर्थवादात् । तत्र चो' पात्र वपन्ती' ति वाक्येन
"
For Private and Personal Use Only