________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८६
अद्वैतमञ्जरी।
ज्ञानं प्रातीतिकभेदविशिष्टज्ञेयस्य बाधकमिति व्यवस्थाया वक्तुमशक्यत्वात् । माध्यमिकमतेऽप्यधिकसत्ताकविषयकत्वस्य प्रपञ्चबाधकज्ञाने वक्तुमशक्यतया न शून्यतासिद्धिः। अथान्यूनसत्ताकविषयकत्वेनैव बाधकत्वमिति चेन्न । बाधकज्ञानस्य त्वन्मते स्वप्रकाशत्वेन सिद्धिर्वाच्या । सा च न सम्भवति । बाध्यमानस्य बाधकत्वानुपपत्तेः । अथ कालान्तरे तस्य बाधकमवतरतीति चेन्न । चरमस्य बाधकज्ञानस्य बाध्यखानुपपत्त्या शून्यत्वासिद्धेः । अथ पूर्वमेव तस्य बाधकमवतीर्णम् । मिथ्यात्वनिश्चयस्यैव बाधकत्वेन भाविनोऽपि बाध्यतासम्भवादिति चेत् । तर्हि बाधितस्य बाधकत्वं सुतरामसङ्गतम् । तस्मानित्यसाक्षिणा त्रिकालाबाध्येन सिद्धं जन्यज्ञानं बाध्यम् । साक्षिणस्तु स्वप्रकाशस्यासंसृष्टस्य न केनापि बाधः । संसृष्टेष्वेव बाधकस्य प्रवृत्तेरिति वेदान्तदर्शनमेव विजयते । सङ्गच्छत इति । शुक्तिरूप्यादेरलीकत्ववादिमाध्वादिमते तत्सत्ताधिकसत्त्वाप्रसिद्ध्या नोक्तबाधकताप्रयोजकं तत्र सम्भवति । मन्मते तु सम्भवत्येवेति भावः । भ्रमकालीनेत्यादि । तादृशबुद्धिरधिष्ठानसामान्यांशधीः । तदविषयो विशेषः शुक्तित्वादिः । तथेति । शुद्धब्रह्मविषयिका धीः भ्रमनिवर्तिका । शुद्धं च सद्रूपं सर्वभूमेषु भात्येव । उपहितभाने शुद्धभानस्यावश्यकत्वात् । अधिष्ठानतत्त्वज्ञानति । अन्यविषयत्वानिरूपिताधिष्ठानविषयताकज्ञानेत्यर्थः । व्यावृत्ताकारत्वेन व्यावर्तकधर्माश्रयविषयकत्वेन । विशेषणात् व्यावृत्ताकारबुद्धौ भासमानव्यावर्तकधर्ममादाय । उपलक्षणात् उक्तबुद्धावभासमानं व्यावर्तकधर्ममादाय । धर्मान्तरस्य उत्तृणत्वादेः । उपलक्षणं काकादिकम् । तस्मात् तदादाय । सप्रकारकतैवेति । उत्तृणत्वं प्रति व्याप्यतया ज्ञापकं काकवत्त्वमुपलक्षणमुच्यते । उपलक्ष्यते ज्ञायते अनेनेति व्युत्पत्तेः । तथा व 'देवदत्तगृहाः काकवन्त' इत्यादौ काकवत्त्वोपस्थापितमुत्तृणत्वं गृहे प्रकारीभूय भातीति सप्रकारकत्वनियम इति भावः । स्वरूपोपलक्षणात् धर्मान्तरानुपस्थापकात् स्वोपलक्षितस्य शुद्धस्य स्वाश्रयस्यैव लक्षणयोपस्थापकमादायेति या. वत । निष्पकारकति । 'प्रकृष्ट नकाशश्चन्द' इत्यादिवाक्यजन्यबोधे लोक तथा दर्शनात् । उपलक्षणस्य विशेषणत्वोपाधित्वाभ्यां शून्यस्य व्यावर्तकस्य । तत्र व्यावृत्ताकारबोधे । अप्रवेशात् अविषयत्वात् । ननु, उपलक्षणस्य तत्राविषयत्वेऽपि उपलक्ष्यव्यक्तिरेव तादात्म्यसम्बन्धेन स्वस्मिन् प्रकारीभूय भातु । तत्राह-स्वस्येति । अत्यन्ताभेदे विशिष्टप्रमा न सम्भवतीति भेदाभेदमतव्याख्याने यत् पूर्वमस्माभिः प्रपञ्चितं, तदेतन्मूलकम् । प्रमेयत्वादिवत् आकाशाभावादिप्रकारकप्रमाविशेष्यत्वादिवत् । त्वयापीत्यपिना मन्मते केवलान्वयित्वमेव नास्ति । सर्वदृश्यानां सर्वत्रामावा
For Private and Personal Use Only