________________
Shri Mahavir Jain Aradhana Kendra
प्रथमपरिच्छेदः ]
www.kobatirth.org
लघुचन्द्रिका
Acharya Shri Kailassagarsuri Gyanmandir
For Private and Personal Use Only
७
I
अत आह— तस्मादिति । स्वकर्तव्येति । उक्तस्थले तात्कालिके संशयाभावे निश्चितेऽपि निश्चयजन्यसंस्कारस्य कालान्तरे उच्छेदशङ्कया संशयोत्पत्तिसंभवज्ञानेन तदापि संशयाभावोऽनुवर्ततामितीच्छायास्तं भवान्न विजयादिकमात्रमुद्दिश्य प्रवृत्तिः । किञ्च यथा समयबन्धः । एतन्मतमवलम्ब्यैव युवाभ्यां विचारणीयमित्याकरको मध्यस्थेन क्रियते । अन्यथा वादिनामतान्तरप्रवेशेऽव्यवस्थापत्तेः । यथा वा वादिनौ परीक्ष्येते । अन्यथा मूर्खस्य विचारे मध्यस्थस्यैव हास्यत्वापत्तेः । तथा विप्रतिपत्तिरपि मध्यस्थेन कार्येव । अन्यथा प्रासङ्गिकविषयमादाय वादिनोरेकस्य जयस्वीकारापत्त्या प्रकृतविषये तयोर्जयपराजयव्यवस्थापन रूपस्य मध्यस्थकर्तव्यस्यानिर्वाहात् । विप्रतिपत्तौ कृतायां तु सभास्थैस्तच्छ्रवणात्तद्विषयकोटी अपलप्य प्रासंगिक विषयान्तरं न वादिम्यामवलम्ब्य विजयस्स्वीकर्तुं शक्यते । तस्मात्सार्वकालिक संशयाभावप्रयोजक संस्कारदार्थस्योक्तव्यवस्थापनस्य च स्वकर्तव्यस्य निर्वाहाय मध्यस्थेन विप्रतिपत्तिः कार्येवेति भावः । प्रतिपन्नेत्यादि । स्वसम्बन्धितया ज्ञाते सर्वत्र धर्मिणि । त्रैकालिकस्य सर्वदा विद्यमानस्य । निषेधस्यात्यन्ताभावस्य । प्रतियोगि न वा । येन सम्बन्धेन यदूपविशिष्टसम्बन्धितया यत् ज्ञातं तत्सम्बन्धतद्रूपावच्छिन्नं तन्निष्ठोक्ताभावस्य प्रतियोगित्वं निवेश्यम् । अन्यथा सम्बन्धान्तररूपान्तरावच्छिन्नमुक्त प्रतियोगित्वमादाय सिद्धसाध्यतापत्तेः । स्वपदं रजतत्वादिविशिष्टपरम् । नव्यमते स्वत्वस्याननुगतत्वात्तत्तद्व्यक्तिपरत्वे व्यक्तिभेदेन मिथ्यात्वस्य भेदापत्तेः । तथा च रजततादात्म्येन ज्ञायमानं यच्छुक्त्यादिकं तन्निष्ठाभावीयं यद्रजतत्वतादात्म्यसम्बन्धावच्छिन्न प्रतियोगित्वं तस्य प्रातीतिक इव व्यावहारिकेऽपि रजते सत्वात्तत्र सिद्धसाधनवारणाय सर्वत्रेत्युक्तम् । कालिकाव्याप्यवृत्तिमदत्यन्ताभावमादायार्थान्तरतापत्ते स्नैकालिकेत्युक्तम् । यद्यपि अत्यन्ताभावस्यैव प्रतियोगिता भेदसहिष्णुना तादात्म्येनावच्छिन्ना । न तु भेदस्य । तादृशतादात्म्यस्य भेदाविरोधित्वात् । भेदासहिष्णु च तादात्म्यं नास्त्येव । अत्यन्ताभेदे तादात्म्यादिसम्बन्धसंभवात् । तथापि प्रकृतानुमानात्तादात्म्यावच्छिन्नभेदप्रतियोगितासिद्धिमादायार्थान्तरं स्यात् । अतोऽत्यन्ताभावेत्युक्तम् । संसर्गीभावो वा निवेश्यः । तादृशामावप्रतियोगितावच्छेदकर जतत्वादिमत्त्वस्य साध्यत्वे साध्याप्रसिद्धिः । अतस्तदपहाय तादृशप्रतियोगित्वमेव साध्यं कृतम् । तस्यापि शुक्तिरूप्यादावनुमानात्पूर्वमसिद्धिः। रजतसम्बन्धितया प्रतीयमानसर्वान्तर्गतव्यावहारिकरजतादिनिष्ठात्यन्ताभावप्रतियोगित्वस्य तादृशावच्छिन्नस्य तत्राभावात् । अतो व्यावहारिकपक्षकविशेषानुमानेषु रजतत्वेन घटो नास्तीति प्रतीतेः घटादिरेव दृष्टान्तः । ननु, तादृशप्रतियोगिता -
1