________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७०
अद्वैतमञ्जरी
तु गुणस्य विधेयस्य बोधकम् । यद्यपि यागे तादृशस्य गुणस्य नान्वयः । आख्यातार्थक्रियां प्रति हि धात्वर्थो यागादिः कर्मत्वेन करणत्वेन वान्वयं लभते । 'पचती,त्यादौ पाकं करोति पाकेनेष्टं साधयतीति द्वेधा विवरणात् । काष्टरित्यादिपदयोगे आद्यस्य तण्डुलमित्यादिपदयोगे द्वितीयस्य सम्भवात् उभययोगे पाकस्य करणत्वेऽपि काष्ठानामितिकर्तव्यतात्वेनान्वयात् । तथा च कारकाणाम्मिथोऽन्वयासम्भवः । क्रियां प्रति गुणीमूतानां कारकाणां मिथस्समत्वेन गुणप्रधानभावेनानन्वयात्. । नापि क्रियायामेव तदन्वयः । समानपदोपात्तयागस्य करणत्वेनान्वयस्य प्रथमं बुद्धत्वेन पश्चात् गुणस्य करणत्वेनान्वये आका
ङ्क्षाविरहात् । नापि क्रियायां कारकाणामन्वयनियमेऽप्यकारकरूपेण तस्य यागेऽन्वयः । अभेदान्वयस्य बाधात् । भेदान्वयस्य धात्वर्थनामार्थयोरव्युत्पन्नत्वात् । नापि वाजपेयपदस्य वाजपेयसम्बन्धिनि लक्षणया तस्य यागेऽभेदान्वयः । धात्वर्थस्य कर्मत्वे तद्विशेषणपदस्य द्वितीयान्तत्वापेक्षायामपि धात्वर्थस्य करणत्वे तद्विशेषणपदस्य तृतीयान्तत्वस्य सम्भवादिति वाच्यम् । लक्षणाकल्पनापेक्षया वाजमन्नं सुरारूपं पेयमस्मिन्निति व्युत्पत्त्या यौगिकत्वस्वीकारेण नामधेयत्वस्यैवौचित्यात् । नापि स्वाराज्यकर्मिकायां क्रियायां यागस्य करणत्वेऽपि यागकर्मिकायां वाजपेयस्य करणत्वम् । एकेनाख्यातेन क्रिययोर्बोधने आवृत्त्यापातेनावृत्तिलक्षणवाक्यभेदापत्तेः । एकक्रियायां तु न कर्मद्वयस्यान्वयः । गुणीभूतयैकक्रियया प्रधानीभूतयोः कर्मणोर्वशीकर्तुमशक्यतया प्रतिप्रधानं गुणावृत्तिन्यायेन क्रियापदस्याख्यातस्यावृत्त्यापत्त्या वाक्यार्थभेदापत्त्या वाक्यभेदापत्तेः । 'गुणीभूतानि हि कारकाणि क्रियैकापि पिण्डीकरोति । न प्रधानभूतानी'ति न्यायात्, तथापि करणकर्मसाधारणेन सम्बन्धित्वमात्रेण यागस्यैकस्यामेव क्रियायामन्वयसम्भवेन यागकर्मकांशमादाय तस्यां वाजपेयगुणस्य करमत्वेनान्वयः । यागकरणकांशमादाय तस्यां खाराज्यस्य कर्मत्वेनान्वयः । वाजपेयेन यागं कुर्यात् यागेन स्वाराज्यं कुर्यात् । इति प्राप्ते, न सम्बन्धित्वमात्ररूपेण यागस्यान्वयसंभवः । क्रियाया हि किं केनेत्याद्याकांक्षापत्त्या कर्मत्वकरणत्वादिकारकरूपेणैव कर्मादिकं गृह्यते । अन्यथा आकांक्षानिवृत्त्यसंभवात् । तथा चैकस्यां क्रियायां कर्मत्वकरणत्वाभ्यां यागस्यान्वयो वाच्यः । स च न सं. भवति । उक्तदोषात् । यजेरावृत्त्यापत्तेः, विरुद्धयोस्त्रिकयो:धकृतस्य वैरूप्यस्यापत्तेश्च । विधेयत्वं गुणत्वमुपादेयत्वमित्येकं त्रिकम् । अनुवाद्यत्वं प्रधानत्वमुद्देश्यत्व मित्यन्यदिति त्रिकद्वयम् । तत्र फलानुवादेन यागस्य यागानुवादेन गुणस्य चोत्प
For Private and Personal Use Only