SearchBrowseAboutContactDonate
Page Preview
Page 180
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अद्वैतमञ्जरी तदीर्लक्षणा। लक्षणाविषयीभूतव्यक्तेर्गुणैर्योगात् विषयत्वरूपात् वृत्तेर्गुणोपस्थितेर्गौणता। गौणीत्वमित्यर्थः । शौर्यादिगुणानां सिझो बाल इत्यादिवाक्ये बालादिनामार्थे तादात्म्येनान्वयः। न च सिह्यादिना स्ववृत्तिशौर्यादेरेवोपस्थितिः । तेनैव सह पूर्व सम्बन्धस्य गृहीतत्वात् । तस्य च बाले बाधान्नान्वयसम्भव इति वाच्यम् । स्ववृत्तितावच्छेदकजातिविशेषवत्त्वसम्बन्धेन विजातीयशौर्यादेर्बालादिवृत्तरेव सिह्मादिवाक्योपस्थितिसम्भवात् । भट्टमते समवायविशेषणतयोरस्वीकारेण तयोः स्थाने तादात्म्यस्यैव स्वीकारेण गुणकर्मसामान्यादिरूपस्य सर्वस्यापि गुणस्य तादात्म्येनैव नामाद्यर्थेऽन्वयः । अभावादिगुणस्य स्वाधिकरणस्वरूपस्य तादात्म्येनैव स्वाधिकरणेऽन्वयः । द्रव्यादिरूपस्य गुणस्य संयोगादिनेति दिक् । अत्र प्रत्यक्षबाधकाद्वैतश्रुतौ । नाद्वैतेति । 'यजमान' इत्यादिश्रुतौ तु नोपक्रमादिकम् । अतस्तत्र गौणार्थतेति भावः । अपूर्वत्वेति । प्रस्तरयजमानाभेदादेमानान्तराज्ञातत्वरूपमपूर्वत्वम् । वाक्यशेषेति । विधिवाक्यरूपवाक्यशेषेणार्थवादानां स्वापेक्षितस्तुतिनिन्दापरत्वनिश्चयादन्यपरेभ्योऽर्थवादेम्यो न प्रत्यक्षविरुद्धार्थसिद्धिरिति प्रत्यक्षं व्यवहारकाले बाधितं नेत्यर्थः । गतिसामान्येन सर्ववेदान्तजन्यावगतीनां जीवब्रह्मैक्यविषयकत्वेन समानतया । किश्चिज्ज्ञत्वेति । स्वकीयावस्थात्रयमात्रभासकत्वेत्यर्थः । ऐक्यान्वयेति । ऐक्यबोधेत्यर्थः । पदार्थतावच्छेदकविशिष्टयोरेव मिथोऽन्वयधीर्मुख्यया वृत्त्या सर्वत्रौत्सर्गिकी । यथा 'घटो मेयवा नित्यादौ घटत्वघटयोर्मेयतहतोरभेदान्वयधीः । अत एव 'लोहितोप्णीषा ऋत्विजः प्रचरन्ती'त्यादौ लौहित्यत्य विशेषणत्वेन प्रचरणकाले उष्णीषे तत्सत्त्वमपेक्षितम् । 'सर्वादीनि सर्वानामानी'ति सूत्रे सर्वपदस्यापि विशेषणत्वात् सर्वनामसंज्ञेति महाभाष्यकाराः । यत्र तु पदार्थतावच्छेदकेनोपहित, उपलक्षितो वा पदार्थः शाब्दबोधे विषयः, तत्र लक्षणैव । विशिष्टे शक्तिज्ञानेन शाब्दबोधे जननीये विशेषणस्य पदार्थान्तरयोग्यताज्ञानस्य सहकारित्वकल्पनेन शक्तिज्ञानजन्यबोधस्य पदार्थान्तरे पदार्थतावच्छेदकान्वयविषयकत्वनियमात् । तथा च लक्षणां विना 'तत्त्वमसी'त्यत्र जायमानो बोधः पदार्थतावच्छेदकस्य पदार्थान्तरे तत्त्वावच्छेदके चान्वयं विषयीकुर्यात् । अविषयीकुर्वन्वा विशिष्टे शक्तिज्ञानेन न जन्यते । किं तु विशेष्यमात्रे शक्तिज्ञानेनेति भावः । अन्वयेति । बोधेत्यर्थः । सामानाधिकरण्येन । अकार्यकारणद्रव्यमात्रतात्पर्यकसमानविभक्तिकनानानामत्वेन । ऐक्यस्य शुद्धव्यक्तिमात्ररूपस्य । प्रतीयमानस्य प्रतियमानत्वेन विवरणादौ निर्णीतस्य । विशेष्यमात्रान्वयस्य विशेष्यमात्रशान्दाधीप्रयो For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy