SearchBrowseAboutContactDonate
Page Preview
Page 164
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ अद्वैतमञ्जरी । चकत्वेन दीक्षणीयत्वादिसकलविशेषरूपविशिष्टबोधकत्वेन । सामान्याविषयत्वे दीक्षणीयादिसकलपदार्थसाधारणरूपविशिष्टाबोधकत्वे । तथा च सर्वनामपदानां बुद्धिविशेषविषयधर्मरूपसाधारणधर्मविशिष्टशक्तत्वेऽपि घटत्वादिविशेषरूपेण स्वरूपतो भासमानेन घटादिशाब्दधीजनकत्वम् । अत एव सर्वेम्यो दर्शपूर्णमासावित्यादौ पुत्रत्वपशुत्वादिरूपेण सर्वादिपदेन फलबोधनात्तेन तेन रूपेणैव फलकामनया दीद्यनुष्ठानं शास्त्रार्थः । 'अयं स' इति वाक्यजन्यबोधोत्तरम् 'अयं घटो नवेति न संशय इति भावः । यावत्या यादृशस्वरविशिष्टया । अनुब्यादिति । 'मन्द्रं प्रायणीयायां मन्द्रतरमातिथ्यायामुपांशूपसत्सूच्चैरग्नीषोमीय' इति वा. क्यशेषः । निरवकाशेनेति । दक्षिणीयामिन्ने यथाकामस्वराविधायकेनेत्यर्थः । ननु, उक्तवाक्येन दीक्षणीयादिषु ज्योतिष्टोमाङ्गेषु सर्वेप्वग्नीषोमीयपूर्वेषु स्वरविशेषविधानात् यत्किञ्चिदित्यादिकमपि दीक्षणीयाद्यविषयकत्वे निरवकाशं स्यादिति चेन्न । दीक्षणीयादेरङ्गेषु तम्य सावकाशत्वात् । यद्यपि दीक्षणीयाद्यङ्गस्य याजुर्वेदिकत्वेनोपांशु यजुषेत्यनेनोपांशुत्वं प्रसक्तं, तथापि तदतिदेशेन बाध्यते । दर्शपूर्णमासप्रकरणे ह्युक्तम्-'प्राक् स्विष्टकृतः प्रथमस्थानेन मध्यमेनेडायाश्शेषे तृतीयस्थानेनेति । तस्यार्थः स्विप्टकृतः प्राक् प्रथमस्थानेन नीचैःस्वरेण । इडायाः प्राक् मध्यमेन स्वरेण । शेपे इडोत्तरं तृतीयस्थानेन उचैःस्वरेणेति । तादृशस्याप्यातिदेशिकस्य यत्किञ्चिदित्यादिना बाधः । तस्यापि यावत्येत्यादिनति बोध्यम् । वृत्त्यन्तरेण सत्त्वप्रत्यक्षाविषयस्यैव मिथ्यात्वधीः यया वृत्त्या भवति तया। तथा च 'एकमेवाद्वितीय मित्यादौ द्वितीयादिपदस्य सत्त्वप्रत्यक्षाविषयद्वितीये लक्षणाकल्पनया तस्यैव मिथ्यात्वधीरिति भावः । 'नेह नानास्ति किञ्चने' त्यादौ तु 'पृथग्विनान्तरेणते हिरुङ्नाना च वर्जन' इति कोशोक्ते ना. शब्दस्य वर्जनरूपात्यन्ताभावार्थकत्वादिह कोऽपि निषेधो नास्ति । सर्वाश्रयत्वादित्यर्थ इत्याशयेनाह-अनेकार्थत्वेनोति । द्वैतनिपेधेति । द्वैतसामान्याभावेत्यर्थः । निरवकाशत्वादिति । सावकाशत्वं हि यस्माद्विषयात् सङ्कोचो यस्य पदस्य वाच्यः, तत्र विषये यादृशी वृत्तिः तस्य पदस्य प्रसक्ता तादृशवृत्त्या विषयान्तरबोधकत्वम् । यथा दीक्षणीयातस्संकुचितस्य यत्किञ्चित्पदस्य दीक्षणीयाप्रसक्तशक्तिकस्य शक्त्यैव दीक्षणीयाद्यङ्गबोधकत्वम् । न हि — यजमानः प्रस्तर' इत्यादौ यजमानादिपदस्य यजमानकार्यसाधकरूपार्थे सावकाशत्वात् प्रस्तरयजमानयोः भेदप्रत्यक्षेण बाध्यता । किं तु उक्तश्रुतेस्तयोरभेदे तात्पर्याभावेनोक्तप्रत्यक्षापेक्षया दुर्बलत्वात् । प्रकृते तु विशेषणविशेष्यभावादिसामानाधिकरण्या For Private and Personal Use Only
SR No.020454
Book TitleLaghuchandrika
Original Sutra AuthorN/A
AuthorBramhanand Sarasvati, Harihar Shastri
PublisherVidya Mudrakshar Shala
Publication Year1893
Total Pages336
LanguageSanskrit
ClassificationBook_Devnagari
File Size21 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy